वाल्यनुशासनम्
किष्किन्धाकाण्डः / वाल्यनुशासनम्
Script
Translation
Previous
हनुमदाश्वासनम्
Next
अङ्गदाभिवादनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे वाल्यनुशासनम् नाम द्वाविंशः सर्गः ॥४-२२॥
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।
आदावेव तु सुग्रीवं ददर्शानुजमग्रतः ॥४-२२-१॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् ।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥४-२२-२॥
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् ।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥४-२२-३॥
युगपद् विहितं तात न मन्ये सुखमावयोः ।
सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा ॥४-२२-४॥
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।
मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥४-२२-५॥
जीवितं च हि राज्यं च श्रियं च विपुलां तथा ।
प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः ॥४-२२-६॥
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः ।
यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि ॥४-२२-७॥
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ॥४-२२-८॥
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ।
मया हीनमहीनार्थं सर्वतः परिपालय ॥४-२२-९॥
त्वमप्यस्य पिता दाता परित्राता च सर्वशः ।
भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ॥४-२२-१०॥
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।
रक्षसां च वधे तेषामग्रतस्ते भविष्यति ॥४-२२-११॥
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।
करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः ॥४-२२-१२॥
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥४-२२-१३॥
यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् ।
नहि तारामतं किंचिदन्यथा परिवर्तते ॥४-२२-१४॥
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।
स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः ॥४-२२-१५॥
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।
उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ॥४-२२-१६॥
इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥४-२२-१७॥
तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः ।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥४-२२-१८॥
तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम् ।
संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥४-२२-१९॥
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।
सुखदुःखसहः काले सुग्रीववशगो भव ॥४-२२-२०॥
यथा हि त्वं महाबाहो लालितः सततं मया ।
न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते ॥४-२२-२१॥
नास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम ।
भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥४-२२-२२॥
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ।
उभयं हि महादोषं तस्मादन्तरदृग् भव ॥४-२२-२३॥
इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् ।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥४-२२-२४॥
ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः ।
परिदेवयमानास्ते सर्वे प्लवगसत्तमाः ॥४-२२-२५॥
किष्किन्धा ह्यद्य शून्या च स्वर्गते वानरेश्वरे ।
उद्यानानि च शून्यानि पर्वताः काननानि च ॥४-२२-२६॥
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ।
यस्य वेगेन महता काननानि वनानि च ॥४-२२-२७॥
पुष्पौघेणानुबद्ध्यन्ते करिष्यति तदद्य कः ।
येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः ॥४-२२-२८॥
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ।
नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति ॥४-२२-२९॥
ततः षोडशमे वर्षे गोलभो विनिपातितः ।
तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान् ।
सर्वाभयंकरोऽस्माकं कथमेष निपातितः ॥४-२२-३०॥
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे ।
वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥४-२२-३१॥
ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ।
जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥४-२२-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे वाल्यनुशासनम् नाम द्वाविंशः सर्गः ॥४-२२॥
Previous
हनुमदाश्वासनम्
Next
अङ्गदाभिवादनम्