सीताधर्मावेदनम्
अरण्यकाण्डः / सीताधर्मावेदनम्
Script
Translation
Previous
सुतीक्ष्णाभ्यनुज्ञा
Next
रक्षोवधसमर्थनम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीताधर्मावेदनम् नाम नवमः सर्गः ॥३-९॥
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥३-९-१॥
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह ॥३-९-२॥
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।
मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ ॥३-९-३॥
परदाराभिगमनं विना वैरं च रौद्रता ।
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ॥३-९-४॥
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ।
तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन ॥३-९-५॥
मनस्यपि तथा राम न चैतद् विद्यते क्वचित् ।
स्वदारनिरतश्चैव नित्यमेव नृपात्मज ॥३-९-६॥
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः ।
त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम् ॥३-९-७॥
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः ।
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥३-९-८॥
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।
निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम् ॥३-९-९॥
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ।
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।
प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥३-९-११॥
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।
त्वद्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥३-९-१२॥
नहि मे रोचते वीर गमनं दण्डकान् प्रति ।
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥३-९-१३॥
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ।
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् ॥३-९-१४॥
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च ।
समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥३-९-१५॥
पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः ।
कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे ॥३-९-१६॥
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ।
खड्गपाणिरथागच्छदाश्रमं भटरूपधृक् ॥३-९-१७॥
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः ।
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ।
वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः ॥३-९-१९॥
यत्र गच्छत्युपादातुं मूलानि च फलानि च ।
न विना याति तं खड्गं न्यासरक्षणतत्परः ॥३-९-२०॥
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः ।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः ।
तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥३-९-२२॥
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम् ।
अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते ॥३-९-२३॥
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये ।
न कथंचन सा कार्या गृहीतधनुषा त्वया ॥३-९-२४॥
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् ।
अपराधं विना हन्तुं लोको वीर न मंस्यते ॥३-९-२५॥
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् ।
धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥३-९-२६॥
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥३-९-२७॥
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् ।
पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥३-९-२८॥
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम ।
यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ॥३-९-२९॥
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥३-९-३०॥
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् ॥३-९-३१॥
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।
सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः ॥३-९-३२॥
स्त्रीचापलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः ।
विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण ॥३-९-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीताधर्मावेदनम् नाम नवमः सर्गः ॥३-९॥
Previous
सुतीक्ष्णाभ्यनुज्ञा
Next
रक्षोवधसमर्थनम्