रक्षोवधसमर्थनम्
अरण्यकाण्डः / रक्षोवधसमर्थनम्
Script
Translation
Previous
सीताधर्मावेदनम्
Next
अगस्त्याश्रमः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रक्षोवधसमर्थनम् नाम दशमः सर्गः ॥३-१०॥
वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम् ॥३-१०-१॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥३-१०-२॥
किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।
क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥३-१०-३॥
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।
मां सीते स्वयमागम्य शरण्यं शरणं गताः ॥३-१०-४॥
वसन्तः कालकालेषु वने मूलफलाशनाः ।
न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः ॥३-१०-५॥
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ।
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ॥३-१०-६॥
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ।
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ॥३-१०-७॥
कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम् ।
प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला ॥३-१०-८॥
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।
किं करोमीति च मया व्याहृतं द्विजसंनिधौ ॥३-१०-९॥
सर्वैरेव समागम्य वागियं समुदाहृता ।
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ॥३-१०-१०॥
अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु ।
होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ ॥३-१०-११॥
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ।
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ॥३-१०-१२॥
गतिं मृगयमाणानां भवान् नः परमा गतिः ।
कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान् ॥३-१०-१३॥
चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम् ।
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव ॥३-१०-१४॥
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ।
तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः ॥३-१०-१५॥
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।
मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम् ॥३-१०-१६॥
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ।
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ॥३-१०-१८॥
न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।
तदवश्यं मया कार्यमृषीणां परिपालनम् ॥३-१०-१९॥
अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः ।
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः ॥३-१०-२०॥
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते ।
सदृशं चानुरूपं च कुलस्य तव शोभने ।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥३-१०-२१॥
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥३-१०-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रक्षोवधसमर्थनम् नाम दशमः सर्गः ॥३-१०॥
Previous
सीताधर्मावेदनम्
Next
अगस्त्याश्रमः