क्रोधसंहारप्रार्थना
अरण्यकाण्डः / क्रोधसंहारप्रार्थना
Script
Translation
Previous
रामक्रोधः
Next
औचित्यप्रबोधनम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे क्रोधसंहारप्रार्थना नाम पञ्चषष्ठितमः सर्गः ॥३-६५॥
तप्यमानं तदा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं सांवर्तकमिवानलम् ॥३-६५-१॥
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः ।
दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम् ॥३-६५-२॥
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥३-६५-३॥
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥३-६५-४॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः ॥३-६५-५॥
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि ।
ननु जानामि कस्यायं भग्नः सांग्रामिको रथः ॥३-६५-६॥
केन वा कस्य वा हेतोः सयुगः सपरिच्छदः ।
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ॥३-६५-७॥
देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज ।
एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ॥३-६५-८॥
नहि वृत्तं हि पश्यामि बलस्य महतः पदम् ।
नैकस्य तु कृते लोकान् विनाशयितुमर्हसि ॥३-६५-९॥
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ।
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥३-६५-१०॥
को नु दारप्रणाशं ते साधु मन्येत राघव ।
सरितः सागराः शैला देवगन्धर्वदानवाः ॥३-६५-११॥
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ।
येन राजन् हृता सीता तमन्वेषितुमर्हसि ॥३-६५-१२॥
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ।
समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च ॥३-६५-१३॥
गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा ।
देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ॥३-६५-१४॥
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।
न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥३-६५-१५॥
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र ।
ततः समुत्सादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः ॥३-६५-१६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे क्रोधसंहारप्रार्थना नाम पञ्चषष्ठितमः सर्गः ॥३-६५॥
Previous
रामक्रोधः
Next
औचित्यप्रबोधनम्