रामक्रोधः

अरण्यकाण्डः / रामक्रोधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रामक्रोधः नाम चतुःषष्ठितमः सर्गः ॥३-६४॥
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥३-६४-१॥
अपि गोदावरीं सीता पद्मान्यानयितुं गता । एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ॥३-६४-२॥
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥३-६४-३॥
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ॥३-६४-४॥
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः ॥३-६४-५॥
रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥३-६४-६॥
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता ॥३-६४-८॥
रावणस्य च तद्रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह ॥३-६४-९॥
निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥३-६४-१०॥
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥३-६४-११॥
मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता । ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः ॥३-६४-१३॥
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥३-६४-१४॥
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीर मामीक्षन्ते पुनः पुनः ॥३-६४-१५॥
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥३-६४-१६॥
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥३-६४-१७॥
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत ॥३-६४-१८॥
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥३-६४-२०॥
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत् । क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥३-६४-२१॥
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम् ॥३-६४-२२॥
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते । बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ॥३-६४-२३॥
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम् । एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥३-६४-२४॥
वसुंधरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले ॥३-६४-२५॥
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥३-६४-२६॥
अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥३-६४-२७॥
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ॥३-६४-२८॥
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ॥३-६४-२९॥
रामा रम्ये वनोद्देशे मया विरहिता त्वया । क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥३-६४-३०॥
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥३-६४-३१॥
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे ॥३-६४-३२॥
ततो दाशरथी राम उवाच च शिलोच्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥३-६४-३३॥
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः । इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा ॥३-६४-३५॥
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः ॥३-६४-३६॥
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥३-६४-३७॥
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥३-६४-३८॥
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः । आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥३-६४-४०॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥३-६४-४२॥
मुक्तामणिचितं चेदं रमणीयं विभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः ॥३-६४-४३॥
राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ॥३-६४-४४॥
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥३-६४-४५॥
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ॥३-६४-४६॥
भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान् समरध्वजः ॥३-६४-४७॥
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ॥३-६४-४८॥
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ॥३-६४-५०॥
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥३-६४-५१॥
हृता मृता वा वैदेही भक्षिता वा तपस्विनी । न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥३-६४-५२॥
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥३-६४-५३॥
कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ॥३-६४-५४॥
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥३-६४-५५॥
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ॥३-६४-५६॥
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ॥३-६४-५७॥
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः । किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥३-६४-५९॥
संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् ॥३-६४-६०॥
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥३-६४-६१॥
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा । न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ॥३-६४-६२॥
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥३-६४-६३॥
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् । मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ॥३-६४-६४॥
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः ॥३-६४-६५॥
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुक्तानां विशिखानां बलं सुराः ॥३-६४-६६॥
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि ॥३-६४-६८॥
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः । निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः ॥३-६४-६९॥
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम् । यावद् दर्शनमस्या वै तापयामि च सायकैः ॥३-६४-७१॥
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः । वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत् ॥३-६४-७२॥
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः ॥३-६४-७३॥
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥३-६४-७४॥
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः । युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ॥३-६४-७५॥
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥३-६४-७६॥
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम् ॥३-६४-७७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रामक्रोधः नाम चतुःषष्ठितमः सर्गः ॥३-६४॥