जटायुरभियोगः

अरण्यकाण्डः / जटायुरभियोगः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे जटायुरभियोगः नाम पञ्चाशः सर्गः ॥३-५०॥
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥३-५०-१॥
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥३-५०-२॥
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम् ॥३-५०-३॥
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥३-५०-४॥
लोकानां च हिते युक्तो रामो दशरथात्मजः । तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ॥३-५०-५॥
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्मे परदारान् परामृशेत् ॥३-५०-६॥
रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात् ॥३-५०-७॥
न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत् । यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥३-५०-८॥
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन ॥३-५०-९॥
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः । धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥३-५०-१०॥
पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती ॥३-५०-११॥
कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥३-५०-१२॥
विषये वा पुरे वा ते यदा रामो महाबलः । नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥३-५०-१३॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥३-५०-१४॥
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥३-५०-१५॥
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा ॥३-५०-१६॥
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥३-५०-१७॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥३-५०-१८॥
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥३-५०-१९॥
षष्टिवर्षसहस्राणि जातस्य मम रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥३-५०-२०॥
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी । न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥३-५०-२१॥
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ॥३-५०-२२॥
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा ॥३-५०-२३॥
असकृत्संयुगे येन निहता दैत्यदानवाः । न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥३-५०-२४॥
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ । क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥३-५०-२५॥
नहि मे जीवमानस्य नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ॥३-५०-२६॥
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च ॥३-५०-२७॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥३-५०-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे जटायुरभियोगः नाम पञ्चाशः सर्गः ॥३-५०॥