सीतापहरणम्

अरण्यकाण्डः / सीतापहरणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीतापहरणम् नाम एकोनपञ्चाशः सर्गः ॥३-४९॥
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद् वपुः ॥३-४९-१॥
स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥३-४९-२॥
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ॥३-४९-३॥
अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम् ॥३-४९-४॥
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥
सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥३-४९-६॥
संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः ॥३-४९-७॥
दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत् ॥३-४९-८॥
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥३-४९-९॥
स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ॥३-४९-१०॥
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥३-४९-११॥
मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥३-४९-१३॥
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम् ॥३-४९-१४॥
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ॥३-४९-१५॥
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥३-४९-१६॥
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥३-४९-१७॥
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् । प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः ॥३-४९-१८॥
स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥३-४९-१९॥
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः । अंकेनादाय वैदेहीं रथमारोपयत् तदा ॥३-४९-२०॥
सा गृहीतातिचुक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने ॥३-४९-२१॥
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः ॥३-४९-२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥३-४९-२३॥
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥३-४९-२४॥
जीवितं सुखमर्थं च धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥३-४९-२५॥
ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥३-४९-२६॥
न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥३-४९-२७॥
त्वं कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि ॥३-४९-२८॥
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥३-४९-२९॥
आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥३-४९-३०॥
हंससारससंघुष्टां वन्दे गोदावरीं नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥३-४९-३१॥
दैवतानि च यान्यस्मिन् वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥३-४९-३२॥
यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै ॥३-४९-३३॥
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत ॥३-४९-३४॥
विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेष्यति पराक्रम्य वैवस्वतहृतामपि ॥३-४९-३५॥
सा तदा करुणा वाचो विलपन्ती सुदुःखिता । वनस्पतिगतं गृध्रं ददर्शायतलोचना ॥३-४९-३६॥
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता । समाक्रन्दद् भयपरा दुःखोपहतया गिरा ॥३-४९-३७॥
जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा ॥३-४९-३८॥
नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः ॥३-४९-३९॥
रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः ॥३-४९-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीतापहरणम् नाम एकोनपञ्चाशः सर्गः ॥३-४९॥