मारिचाश्रमपुनर्गमनम्
अरण्यकाण्डः / मारिचाश्रमपुनर्गमनम्
Script
Translation
Previous
सीताहरणोपदेशः
Next
सहायैषणा
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे मारिचाश्रमपुनर्गमनम् नाम पञ्चत्रिंशः सर्गः ॥३-३५॥
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥३-३५-१॥
तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च ।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥३-३५-२॥
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥३-३५-३॥
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः ।
सूतं संचोदयामास रथः संयुज्यतामिति ॥३-३५-४॥
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥३-३५-५॥
कामगं रथमास्थाय काञ्चनं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ॥३-३५-६॥
मेघप्रतिमनादेन स तेन धनदानुजः ।
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥३-३५-७॥
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।
स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः ॥३-३५-८॥
दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥३-३५-९॥
कामगं रथमास्थाय शुशुभे राक्षसाधिपः ।
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥३-३५-१०॥
सशैलसागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥३-३५-११॥
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।
विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम् ॥३-३५-१२॥
कदल्यटविसंशोभं नारिकेलोपशोभितम् ।
सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः ॥३-३५-१३॥
अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।
नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः ॥३-३५-१४॥
जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम् ।
आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥३-३५-१५॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः ॥३-३५-१६॥
सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम् ।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ॥३-३५-१७॥
हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम् ।
वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा ॥३-३५-१८॥
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥३-३५-१९॥
तपसा जितलोकानां कामगान्यभिसम्पतन् ।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥३-३५-२०॥
निर्यासरसमूलानां चन्दनानां सहस्रशः ।
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥३-३५-२१॥
अगुरूणां च मुख्यानां वनान्युपवनानि च ।
तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम् ॥३-३५-२२॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥
शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा ।
काञ्चनानि च शृङ्गाणि राजतानि तथैव च ॥३-३५-२४॥
प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च ।
धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च ॥३-३५-२५॥
हस्त्यश्वरथगाढानि नगराणि विलोकयन् ।
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥३-३५-२६॥
अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।
तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम् ॥३-३५-२७॥
समन्ताद् यस्य ताः शाखाः शतयोजनमायताः ।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥३-३५-२८॥
भक्षार्थं गरुडः शाखामाजगाम महाबलः ।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥३-३५-२९॥
सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः ।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥
आजा बभूवुर्धूम्राश्च संगताः परमर्षयः ।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥३-३५-३१॥
भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥३-३५-३२॥
निषादविषयं हत्वा शाखया पतगोत्तमः ।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥
स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान् मतिम् ॥३-३५-३४॥
अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् ।
महेन्द्रभवनाद् गुप्तमाजहारामृतं ततः ॥३-३५-३५॥
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥३-३५-३६॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे ॥३-३५-३७॥
तत्र कृष्णाजिनधरं जटामण्डलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥३-३५-३८॥
स रावणः समागम्य विधिवत् तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥३-३५-३९॥
तं स्वयं पूजयित्वा च भोजनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥३-३५-४०॥
कच्चित्ते कुशलं राजन् लङ्कायां राक्षसेश्वर ।
केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः ॥३-३५-४१॥
एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः ॥३-३५-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे मारिचाश्रमपुनर्गमनम् नाम पञ्चत्रिंशः सर्गः ॥३-३५॥
Previous
सीताहरणोपदेशः
Next
सहायैषणा