सीताहरणोपदेशः

अरण्यकाण्डः / सीताहरणोपदेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीताहरणोपदेशः नाम चतुस्त्रिंशः सर्गः ॥३-३४॥
ततः शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः । अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥३-३४-१॥
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुस्तरम् ॥३-३४-२॥
आयुधं किं च रामस्य येन ते राक्षसा हताः । खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ॥३-३४-३॥
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता । इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ॥३-३४-४॥
ततो रामं यथान्यायमाख्यातुमुपचक्रमे । दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ॥३-३४-५॥
कन्दर्पसमरूपश्च रामो दशरथात्मजः । शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ॥३-३४-६॥
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् । नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम् ॥३-३४-७॥
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे । हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ॥३-३४-८॥
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः । रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश ॥३-३४-९॥
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना । अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ॥३-३४-१०॥
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥३-३४-११॥
एका कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥३-३४-१२॥
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥३-३४-१४॥
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता ॥३-३४-१५॥
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा ॥३-३४-१६॥
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा ॥३-३४-१७॥
नैव देवी न गन्धर्वी न यक्षी न च किंनरी । तथारूपा मया नारी दृष्टपूर्वा महीतले ॥३-३४-१८॥
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् । अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात् ॥३-३४-१९॥
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः ॥३-३४-२०॥
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् । भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ॥३-३४-२१॥
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज । तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥३-३४-२२॥
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि । यदि तस्यामभिप्रायो भार्यात्वे तव जायते । शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥३-३४-२३॥
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण ॥३-३४-२४॥
विज्ञायैषामशक्तिं च क्रियतां च महाबल । सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर ॥३-३४-२५॥
निशम्य रामेण शरैरजिह्मगैर्हताञ्जनस्थानगतान् निशाचरान् । खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि ॥३-३४-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीताहरणोपदेशः नाम चतुस्त्रिंशः सर्गः ॥३-३४॥