विराधसंरोधः
अरण्यकाण्डः / विराधसंरोधः
Script
Translation
Previous
महर्षिसङ्गः
Next
विराधप्रहारः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे विराधसंरोधः नाम द्वितीयः सर्गः ॥३-२॥
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ।
आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥३-२-१॥
नानामृगगणाकीर्णमृक्षशार्दूलसेवितम् ।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥३-२-२॥
निष्कूजमानशकुनिं झिल्लिकागणनादितम् ।
लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह ॥३-२-३॥
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते ।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥३-२-४॥
गभीराक्षं महावक्त्रं विकटं विकटोदरम् ।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥३-२-५॥
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥३-२-६॥
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥३-२-७॥
अवसज्यायसे शूले विनदन्तं महास्वनम् ।
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ॥३-२-८॥
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥३-२-९॥
अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत् ।
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥३-२-१०॥
प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ ।
कथं तापसयोर्वां च वासः प्रमदया सह ॥३-२-११॥
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ।
अहं वनमिदं दुर्गं विराधो नाम राक्षसः ॥३-२-१२॥
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ।
इयं नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ।
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः ॥३-२-१४॥
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा ।
सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥३-२-१६॥
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् ।
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ॥३-२-१७॥
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ।
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥३-२-१८॥
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ।
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥३-२-१९॥
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् ।
अद्येदानीं सकामा सा या माता मध्यमा मम ॥३-२-२०॥
परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे ।
पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा ॥३-२-२१॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः ।
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥
अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥३-२-२३॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥३-२-२४॥
राज्यकामे मम क्रोधो भरते यो बभूव ह ।
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥३-२-२५॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि ।
व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥३-२-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे विराधसंरोधः नाम द्वितीयः सर्गः ॥३-२॥
Previous
महर्षिसङ्गः
Next
विराधप्रहारः