महर्षिसङ्गः
अरण्यकाण्डः / महर्षिसङ्गः
Script
Translation
Next
विराधसंरोधः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे महर्षिसङ्गः नाम प्रथमः सर्गः ॥३-१॥
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम् ॥३-१-१॥
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ॥३-१-२॥
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा ।
मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम् ॥३-१-३॥
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः ।
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ॥३-१-४॥
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ।
आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ॥३-१-५॥
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ।
पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥३-१-६॥
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम् ॥३-१-७॥
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः ।
तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ॥३-१-८॥
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ।
तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ॥३-१-९॥
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः ।
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ॥३-१-१०॥
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् ।
ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥३-१-१२॥
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् ।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥३-१-१३॥
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ।
आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः ॥३-१-१४॥
अत्रैनं हि महाभागाः सर्वभूतहिते रताः ।
अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥३-१-१५॥
ततो रामस्य सत्कृत्य विधिना पावकोपमाः ।
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥३-१-१६॥
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः ।
मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः ॥३-१-१७॥
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् ।
धर्मपालो जनस्यास्य शरण्यश्च महायशाः ॥३-१-१८॥
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ।
इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।
ते वयं भवता रक्ष्या भवद्विषयवासिनः ।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥३-१-२०॥
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ।
रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः ॥३-१-२१॥
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ।
वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥३-१-२२॥
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः ।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥३-१-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे महर्षिसङ्गः नाम प्रथमः सर्गः ॥३-१॥
Next
विराधसंरोधः