हेमन्तवर्णनम्
अरण्यकाण्डः / हेमन्तवर्णनम्
Script
Translation
Previous
पञ्चवटीपर्णशाला
Next
शूर्पनखाभावाविष्करणम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे हेमन्तवर्णनम् नाम षोडशः सर्गः ॥३-१६॥
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ।
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥३-१६-१॥
तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ ।
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥३-१६-२॥
ततो मधुरया वाचा सौम्यया प्रीणयन्निव ।
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥३-१६-३॥
स तं पितृसखं मत्वा पूजयामास राघवः ।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥३-१६-४॥
रामस्य वचनं श्रुत्वा कुलमात्मानमेव च ।
आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् ॥३-१६-५॥
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ।
तान् मे निगदतः सर्वानादितः शृणु राघव ॥३-१६-६॥
कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् ।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥३-१६-७॥
स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः ।
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥३-१६-८॥
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव ।
कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥३-१६-९॥
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः ।
षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥३-१६-१०॥
कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ।
अदितिं च दितिं चैव दनूमपि च कालकाम् ॥३-१६-११॥
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ॥३-१६-१२॥
पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् ।
अदितिस्तन्मना राम दितिश्च दनुरेव च ॥३-१६-१३॥
कालका च महाबाहो शेषास्त्वमनसोऽभवन् ।
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम ॥३-१६-१४॥
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।
दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः ॥३-१६-१५॥
तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा ।
दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम ॥३-१६-१६॥
नरकं कालकं चैव कालकापि व्यजायत ।
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥३-१६-१७॥
ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः ।
उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥३-१६-१८॥
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ।
धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः ॥३-१६-१९॥
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ।
शुकी नतां विजज्ञे तु नतायां विनता सुता ॥३-१६-२०॥
दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः ।
मृगीं च मृगमन्दां च हरीं भद्रमदामपि ॥३-१६-२१॥
मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा ।
सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥३-१६-२२॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥३-१६-२३॥
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ।
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥३-१६-२४॥
हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः ।
गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् ॥३-१६-२५॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ ।
दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१६-२६॥
ततो दुहितरौ राम सुरभिर्द्वे व्यजायत ।
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥३-१६-२७॥
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान् ।
सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान् ॥३-१६-२८॥
मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ ॥३-१६-२९॥
मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा ।
ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ॥३-१६-३०॥
सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत ।
विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥३-१६-३१॥
कद्रूर्नागसहस्रं तु विजज्ञे धरणीधरान् ।
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥३-१६-३२॥
तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः ।
जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ॥३-१६-३३॥
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।
इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् ।
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१६-३४॥
जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः ॥३-१६-३५॥
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा ।
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः ॥३-१६-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे हेमन्तवर्णनम् नाम षोडशः सर्गः ॥३-१६॥
Previous
पञ्चवटीपर्णशाला
Next
शूर्पनखाभावाविष्करणम्