पञ्चवटीपर्णशाला

अरण्यकाण्डः / पञ्चवटीपर्णशाला

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे पञ्चवटीपर्णशाला नाम पञ्चदशः सर्गः ॥३-१५॥
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता । न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
मयूर नादिता रम्याः प्रांशवो बहु कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः । गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः । पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा । अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् । सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् । कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥
कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चवटीपर्णशाला नाम पञ्चदशः सर्गः ॥३-१५॥