कौसल्योपालम्भः

अयोध्याकाण्डः / कौसल्योपालम्भः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे कौसल्योपालम्भः नाम एकषष्ठितमः सर्गः ॥२-६१॥
वनम् गते धर्म परे रामे रमयताम् वरे । कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः । सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया । दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥
भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥
वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे । अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः । यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः । तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥
हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥
इमाम् गिरम् दारुण शब्द सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततः स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे कौसल्योपालम्भः नाम एकषष्ठितमः सर्गः ॥२-६१॥