कौसल्यासमाश्वसनम्

अयोध्याकाण्डः / कौसल्यासमाश्वसनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे कौसल्यासमाश्वसनम् नाम षष्ठितमः सर्गः ॥२-६०॥
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः । धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥
बाष्प वेगौपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव । विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥
न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये । उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥
नगर उपवनम् गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥
बाला इव रमते सीता बाल चन्द्र निभ आनना । रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् । अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥
परि पृच्चति वैदेही ग्रामामः च नगराणि च । गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती । अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् । ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥
अध्वना वात वेगेन सम्भ्रमेण आतपेन च । न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् । वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ । अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी । इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥
विधूय शोकम् परिहृष्ट मानसा । महर्षि याते पथि सुव्यवस्थिताः । वने रता वन्य फल अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥
तथा अपि सूतेन सुयुक्त वादिना । निवार्यमाणा सुत शोक कर्शिता । न चैव देवी विरराम कूजितात् । प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे कौसल्यासमाश्वसनम् नाम षष्ठितमः सर्गः ॥२-६०॥