पौरनिवृत्तिः

अयोध्याकाण्डः / पौरनिवृत्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पौरनिवृत्तिः नाम सप्तचत्वारिंशः सर्गः ॥२-४७॥
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥२-४७-१॥
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः । आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥२-४७-२॥
ते विषादार्तवदना रहितास्तेन धीमता । कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः ॥२-४७-३॥
धिगस्तु खलु निद्रां तां ययापहतचेतसः । नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥२-४७-४॥
कथं रामो महाबाहुः स तथावितथक्रियः । भक्तं जनमभित्यज्य प्रवासं तापसो गतः ॥२-४७-५॥
यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥२-४७-६॥
इहैव निधनं याम महाप्रस्थानमेव वा । रामेण रहितानां नो किमर्थं जीवितं हितम् ॥२-४७-७॥
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम् ॥२-४७-८॥
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः । नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥२-४७-९॥
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना । भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका ॥२-४७-१०॥
निर्यातास्तेन वीरेण सह नित्यं महात्मना । विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम् ॥२-४७-११॥
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः ॥२-४७-१२॥
ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम् । मार्गनाशाद् विषादेन महता समभिप्लुताः ॥२-४७-१३॥
रथमार्गानुसारेण न्यवर्तन्त मनस्विनः । किमिदं किं करिष्यामो दैवेनोपहता इति ॥२-४७-१४॥
तदा यथागतेनैव मार्गेण क्लान्तचेतसः । अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥२-४७-१५॥
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः । आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥
एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् । अपश्यन् निहतानन्दं नगरं ते विचेतसः ॥२-४७-१८॥
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः । नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः ॥२-४७-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पौरनिवृत्तिः नाम सप्तचत्वारिंशः सर्गः ॥२-४७॥