पौरमोहनम्
अयोध्याकाण्डः / पौरमोहनम्
Script
Translation
Previous
पौरयाचनम्
Next
पौरनिवृत्तिः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पौरमोहनम् नाम षड्चत्वारिंशः सर्गः ॥२-४६॥
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः ।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥२-४६-१॥
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् ।
वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि ॥२-४६-२॥
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥२-४६-३॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम ।
सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः ॥२-४६-४॥
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ।
त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥२-४६-५॥
पितरं चानुशोचामि मातरं च यशस्विनीम् ।
अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥
भरतः खलु धर्मात्मा पितरं मातरं च मे ।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥२-४६-७॥
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः ।
नानुशोचामि पितरं मातरं च महाभुज ॥२-४६-८॥
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् ।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता ॥२-४६-९॥
अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम् ।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥२-४६-१०॥
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥२-४६-११॥
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम् ।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम् ।
रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥२-४६-१४॥
सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः ।
कथयामास सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥
जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः ।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥२-४६-१६॥
गोकुलाकुलतीरायास्तमसाया विदूरतः ।
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥२-४६-१७॥
उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च ।
अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥२-४६-१८॥
अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि ।
वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने ।
अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥
यावदेव तु संसुप्तास्तावदेव वयं लघु ।
रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥२-४६-२१॥
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।
स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः ॥२-४६-२२॥
पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः ।
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥२-४६-२३॥
अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम् ।
रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥२-४६-२४॥
अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः ।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥२-४६-२५॥
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।
योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत् ॥२-४६-२६॥
अयं युक्तो महाबाहो रथस्ते रथिनां वर ।
त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥२-४६-२८॥
स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥२-४६-२९॥
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः ।
उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे ॥२-४६-३०॥
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥२-४६-३१॥
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः ।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥२-४६-३२॥
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ ।
प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ।
उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥२-४६-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पौरमोहनम् नाम षड्चत्वारिंशः सर्गः ॥२-४६॥
Previous
पौरयाचनम्
Next
पौरनिवृत्तिः