सुमन्त्रगर्हणम्

अयोध्याकाण्डः / सुमन्त्रगर्हणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे सुमन्त्रगर्हणम् नाम पञ्चत्रिंशः सर्गः ॥२-३५॥
ततो निधूय सहसा शिरो निःश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् । कोपाभिभूतः सहसा संतापमशुभं गतः ॥२-३५-२॥
मनः समीक्षमाणश्च सूतो दशरथस्य च । कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः ॥२-३५-३॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः । कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् । भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥२-३५-५॥
नह्यकार्यतमं किंचित्तव देवीह विद्यते । पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् । महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः ॥२-३५-७॥
मावमंस्था दशरथं भर्तारं वरदं पतिम् । भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥२-३५-८॥
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये । इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ॥२-३५-९॥
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् । वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥२-३५-१०॥
न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति । तादृशं त्वममर्यादमद्य कर्म करिष्यसि ॥२-३५-११॥
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम् । त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥
का प्रीती राज्यलाभेन तव देवि भविष्यति । तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥२-३५-१३॥
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् । आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥२-३५-१४॥
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः । धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः । यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च । न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥२-३५-१७॥
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम् । पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम् ॥२-३५-१८॥
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः । तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥२-३५-१९॥
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः । पितुस्ते विदितो भावः स तत्र बहुधाहसत् ॥२-३५-२०॥
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती । हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ॥२-३५-२१॥
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि । ततो मे मरणं सद्यो भविष्यति न संशयः ॥२-३५-२२॥
माता ते पितरं देवि पुनः केकयमब्रवीत् । शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि ॥२-३५-२३॥
प्रियया च तथोक्तः स केकयः पृथिवीपतिः । तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥२-३५-२४॥
ततः स वरदः साधू राजानं प्रत्यभाषत । म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते ॥२-३५-२५॥
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः । मातरं ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥
तथा त्वमपि राजानं दुर्जनाचरिते पथि । असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी ॥२-३५-२७॥
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा । पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥
नैवं भव गृहाणेदं यदाह वसुधाधिपः । भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् । भर्तारं लोकभर्तारमसद्धर्ममुपादध ॥२-३५-३०॥
नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः । श्रीमान् दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता । रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥
परिवादो हि ते देवि महाँल्लोके चरिष्यति । यदि रामो वनं याति विहाय पितरं नृपम् ॥२-३५-३३॥
स्वराज्यं राघवः पातु भव त्वं विगतज्वरा । नहि ते राघवादन्यः क्षमः पुरवरे वसन् ॥२-३५-३४॥
रामे हि यौवराज्यस्थे राजा दशरथो वनम् । प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि । भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः ॥२-३५-३६॥
नैव सा क्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा ॥२-३५-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सुमन्त्रगर्हणम् नाम पञ्चत्रिंशः सर्गः ॥२-३५॥