दशरथसमाश्वासनम्

अयोध्याकाण्डः / दशरथसमाश्वासनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे दशरथसमाश्वासनम् नाम चतुस्त्रिंशः सर्गः ॥२-३४॥
ततः कमलपत्राक्षः श्यामो निरुपमो महान् । उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥२-३४-१॥
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम् । प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥२-३४-२॥
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् । तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥२-३४-३॥
आबोध्य च महाप्राज्ञः परमाकुलचेतनम् । राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत् ॥२-३४-४॥
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा । भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत् ॥२-३४-५॥
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः । ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥२-३४-६॥
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः । सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते ॥२-३४-७॥
गमिष्यति महारण्यं तं पश्य जगतीपते । वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥२-३४-८॥
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः । आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥२-३४-९॥
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः । दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥२-३४-१०॥
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् । आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥२-३४-११॥
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया । प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम् ॥२-३४-१२॥
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः । कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥२-३४-१३॥
आगतेषु च दारेषु समवेक्ष्य महीपतिः । उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥२-३४-१४॥
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा । जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥२-३४-१५॥
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम् । उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः ॥२-३४-१६॥
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः । तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः ॥२-३४-१७॥
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः । विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा ॥२-३४-१८॥
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि । हा हा रामेति सहसा भूषणध्वनिमिश्रितः ॥२-३४-१९॥
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ । पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥२-३४-२०॥
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम् । उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम् ॥२-३४-२१॥
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥२-३४-२२॥
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम् । कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥२-३४-२३॥
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद । लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान् ॥२-३४-२४॥
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः । उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥२-३४-२५॥
अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥२-३४-२६॥
एवमुक्तो नृपतिना रामो धर्मभृतां वरः । प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥२-३४-२७॥
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः । अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता ॥२-३४-२८॥
नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥२-३४-२९॥
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः । कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥
श्रेयसे वृद्धये तात पुनरागमनाय च । गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥२-३४-३१॥
न हि सत्यात्मनस्तात धर्माभिमनसस्तव । संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥२-३४-३२॥
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा । एकाहं दर्शनेनापि साधु तावच्चराम्यहम् ॥२-३४-३३॥
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि ॥२-३४-३४॥
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय । त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम् ॥२-३४-३५॥
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव । छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया ॥२-३४-३६॥
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः ॥२-३४-३७॥
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥२-३४-३८॥
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम् । लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥२-३४-३९॥
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति । अपक्रमणमेवातः सर्वकामैरहं वृणे ॥२-३४-४०॥
इयं सराष्ट्रा सजना धनधान्यसमाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति । यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव । अहं निदेशं भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
चतुर्दश समा वत्स्ये वने वनचरैः सह । मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् । यथानिदेशं कर्तुं वै तवैव रघुनन्दन ॥२-३४-४५॥
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः । नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥२-३४-४६॥
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम् । नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम् ॥२-३४-४७॥
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो । स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः ॥२-३४-४९॥
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव । मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥
पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम । पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम् ॥२-३४-५३॥
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः । स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥२-३४-५४॥
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥
मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम् । शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥२-३४-५६॥
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये । यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥२-३४-५७॥
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम् । न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ॥२-३४-५८॥
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥२-३४-५९॥
एवं स राजा व्यसनाभिपन्नस्तापेन दुःखेन च पीड्यमानः । आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित् ॥२-३४-६०॥
देव्यः समस्ता रुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् । रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम् ॥२-३४-६१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशरथसमाश्वासनम् नाम चतुस्त्रिंशः सर्गः ॥२-३४॥