मातृस्वस्त्ययनम्

अयोध्याकाण्डः / मातृस्वस्त्ययनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे मातृस्वस्त्ययनम् नाम पञ्चविंशः सर्गः ॥२-२५॥
सा विनीय तमायासमुपस्पृश्य जलं शुचि । चकार माता रामस्य मङ्गलानि मनस्विनी ॥२-२५-१॥
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम । शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥२-२५-२॥
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥२-२५-३॥
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥२-२५-५॥
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा । सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥२-२५-६॥
समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः । पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम ॥२-२५-७॥
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः । स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥२-२५-८॥
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा । ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः ॥२-२५-९॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा । श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥२-२५-१०॥
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः । सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥२-२५-११॥
ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः । स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥२-२५-१२॥
शैलाः सर्वे समुद्राश्च राजा वरुण एव च । द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः ॥२-२५-१३॥
नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः । अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम् ॥२-२५-१४॥
ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा । कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥२-२५-१५॥
महावनेऽपि चरतो मुनिवेषस्य धीमतः । तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा ॥२-२५-१६॥
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् । क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम् ॥२-२५-१७॥
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने । सरीसृपाश्च कीटाश्च मा भूवन् गहने तव ॥२-२५-१८॥
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः । महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥२-२५-१९॥
नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः । मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह ॥२-२५-२०॥
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः । सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक ॥२-२५-२१॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः । सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥२-२५-२२॥
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा । पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥२-२५-२३॥
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः । उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥२-२५-२४॥
सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः । ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम् ॥२-२५-२५॥
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी । स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना ॥२-२५-२६॥
ज्वलनं समुपादाय ब्राह्मणेन महात्मना । हावयामास विधिना राममङ्गलकारणात् ॥२-२५-२७॥
घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान् । उपसम्पादयामास कौसल्या परमाङ्गना ॥२-२५-२८॥
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् । हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥२-२५-२९॥
मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः । वाचयामास रामस्य वने स्वस्त्ययनक्रियाम् ॥२-२५-३०॥
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी । दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥२-२५-३१॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥२-२५-३२॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा । अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् ॥२-२५-३३॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम् ॥२-२५-३४॥
त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः । यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम् ॥२-२५-३५॥
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम् ॥२-२५-३६॥
इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी । गन्धैश्चापि समालभ्य राममायतलोचना ॥२-२५-३७॥
औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम् । चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥२-२५-३८॥
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी । वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥२-२५-३९॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी । अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम् ॥२-२५-४०॥
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् । पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु ॥२-२५-४१॥
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना । द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥२-२५-४२॥
भद्रासनगतं राम वनवासादिहागतम् । द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥२-२५-४३॥
मङ्गलैरुपसम्पन्नो वनवासादिहागतः । वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः ॥२-२५-४४॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः । अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव ॥२-२५-४५॥
अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे ॥२-२५-४६॥
तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः । जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया ॥२-२५-४७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे मातृस्वस्त्ययनम् नाम पञ्चविंशः सर्गः ॥२-२५॥