वनवासनिर्देशः

अयोध्याकाण्डः / वनवासनिर्देशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे वनवासनिर्देशः नाम अष्टादशः सर्गः ॥२-१८॥
स ददर्शासने रामो विषण्णं पितरं शुभे । कैकेय्या सहितं दीनं मुखेन परिशुष्यता ॥२-१८-१॥
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥२-१८-३॥
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् । रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥२-१८-४॥
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् । निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥२-१८-५॥
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥२-१८-६॥
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥२-१८-७॥
चिन्तयामास चतुरो रामः पितृहिते रतः । किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥२-१८-८॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥२-१८-९॥
स दीन इव शोकार्तो विषण्णवदनद्युतिः । कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥२-१८-१०॥
कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता । कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय ॥२-१८-११॥
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः । विषण्णवदनो दीनः नहि मां प्रति भाषते ॥२-१८-१२॥
शारीरो मानसो वापि कच्चिदेनं न बाधते । संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥२-१८-१३॥
कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने । शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥२-१८-१४॥
अतोषयन् महाराजमकुर्वन् वा पितुर्वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥२-१८-१५॥
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥
कच्चित्ते परुषं किंचिदभिमानात् पिता मम । उक्तो भवत्या रोषेण येनास्य लुलितं मनः ॥२-१८-१७॥
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः । किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥२-१८-१८॥
एवमुक्ता तु कैकेयी राघवेण महात्मना । उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥
न राजा कुपितो राम व्यसनं नास्य किंचन । किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते ॥२-१८-२०॥
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते । तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥२-१८-२१॥
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥
अतिसृज्य ददानीति वरं मम विशाम्पतिः । स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥२-१८-२३॥
धर्ममूलमिदं राम विदितं च सतामपि । तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥
यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥२-१८-२५॥
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ ॥२-१८-२७॥
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः । अहं हि वचनाद् राज्ञः पतेयमपि पावके ॥२-१८-२८॥
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे । नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥२-१८-२९॥
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥२-१८-३०॥
तमार्जवसमायुक्तमनार्या सत्यवादिनम् । उवाच रामं कैकेयी वचनं भृशदारुणम् ॥२-१८-३१॥
पुरा देवासुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥२-१८-३२॥
तत्र मे याचितो राजा भरतस्याभिषेचनम् । गमनं दण्डकारण्ये तव चाद्यैव राघव ॥२-१८-३३॥
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि । आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥२-१८-३४॥
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम् । त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥२-१८-३५॥
भरतश्चाभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव ॥२-१८-३७॥
भरतः कोसलपतेः प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णां सवाजिरथसंकुलाम् ॥२-१८-३८॥
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः । शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥
इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः ॥२-१८-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे वनवासनिर्देशः नाम अष्टादशः सर्गः ॥२-१८॥