रामागमनम्
अयोध्याकाण्डः / रामागमनम्
Script
Translation
Previous
रामप्रस्थानम्
Next
वनवासनिर्देशः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामागमनम् नाम सप्तदशः सर्गः ॥२-१७॥
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
पताकाध्वजसम्पन्नं महार्हागुरुधूपितम् ॥२-१७-१॥
अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम् ।
स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥२-१७-२॥
राजमार्गं ययौ रामो मध्येनागुरुधूपितम् ।
चन्दनानां च मुख्यानामगुरूणां च संचयैः ॥२-१७-३॥
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ।
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥
शोभमानमसम्बाधं तं राजपथमुत्तमम् ।
संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि ॥२-१७-५॥
ददर्श तं राजपथं दिवि देवपतिर्यथा ।
दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः ॥२-१७-६॥
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ।
आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् ॥२-१७-७॥
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ।
पितामहैराचरितं तथैव प्रपितामहैः ॥२-१७-८॥
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ।
यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः ।
ततः सुखतरं सर्वे रामे वत्स्याम राजनि ॥२-१७-९॥
अलमद्य हि भुक्तेन परमार्थैरलं च नः ।
यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥२-१७-१०॥
ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति ।
यथाभिषेको रामस्य राज्येनामिततेजसः ॥२-१७-११॥
एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः ।
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥२-१७-१२॥
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥२-१७-१३॥
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते ॥२-१७-१४॥
सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम् ।
चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः ॥२-१७-१५॥
चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च ।
प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः ॥२-१७-१६॥
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ।
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥२-१७-१७॥
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ।
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥२-१७-१८॥
तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥२-१७-१९॥
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥२-१७-२०॥
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात् ॥२-१७-२१॥
तस्मिन् प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥२-१७-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामागमनम् नाम सप्तदशः सर्गः ॥२-१७॥
Previous
रामप्रस्थानम्
Next
वनवासनिर्देशः