जामदग्न्याभियोगः
बालकाण्डः / जामदग्न्याभियोगः
Script
Translation
Previous
दशरथपुत्रोद्वाहः
Next
वैष्णवधनुःप्रशंसा
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे जामदग्न्याभियोगः नाम चतुःसप्ततितमः सर्गः ॥१-७४॥
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥१-७४-१॥
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् ॥१-७४-२॥
अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥
कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च ।
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥१-७४-४॥
ददौ कन्याशतं तासां दासीदासमनुत्तमम् ।
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥१-७४-५॥
ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम् ।
दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥१-७४-७॥
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।
गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥१-७४-८॥
घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः ।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥१-७४-१०॥
किमिदं हृदयोत्कम्पि मनो मम विषीदति ।
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥१-७४-११॥
उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम् ।
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥१-७४-१२॥
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् ।
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥१-७४-१३॥
कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान् ।
तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः ॥१-७४-१४॥
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ।
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ॥१-७४-१५॥
ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥१-७४-१६॥
ददर्श भीमसंकाशं जटामण्डलधारिणम् ।
भार्गवं जामदग्न्येयं राजा राजविमर्दनम् ॥१-७४-१७॥
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् ।
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥१-७४-१८॥
स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम् ।
प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् ॥१-७४-१९॥
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥१-७४-२०॥
संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥१-७४-२१॥
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥१-७४-२२॥
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति मधुरं वाक्यमब्रुवन् ॥१-७४-२३॥
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥१-७४-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे जामदग्न्याभियोगः नाम चतुःसप्ततितमः सर्गः ॥१-७४॥
Previous
दशरथपुत्रोद्वाहः
Next
वैष्णवधनुःप्रशंसा