दशरथपुत्रोद्वाहः

बालकाण्डः / दशरथपुत्रोद्वाहः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे दशरथपुत्रोद्वाहः नाम त्रिसप्ततितमः सर्गः ॥१-७३॥
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान् ॥१-७३-१॥
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः । दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥१-७३-२॥
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् । येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥१-७३-३॥
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः । तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥१-७३-४॥
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् । मिथिलामुपयातांस्तु त्वया सह महीपते ॥१-७३-५॥
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् । अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥१-७३-६॥
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् । ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥१-७३-७॥
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥१-७३-८॥
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः । भ्रातृभिः सहितो रामः कृतकौतुकमंगलः ॥१-७३-९॥
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि । वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥१-७३-१०॥
राजा दशरथो राजन् कृतकौतुकमंगलैः । पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते ॥१-७३-११॥
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि । स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥१-७३-१२॥
इत्युक्तः परमोदारो वसिष्ठेन महात्मना । प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥१-७३-१३॥
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते । स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥१-७३-१४॥
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः । मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः ॥१-७३-१५॥
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः । अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते ॥१-७३-१६॥
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा । प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥१-७३-१७॥
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् । कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक ॥१-७३-१८॥
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो । तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ॥१-७३-१९॥
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् । प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः ॥१-७३-२०॥
अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः । सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः ॥१-७३-२१॥
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः । शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः ॥१-७३-२२॥
लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः । दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ॥१-७३-२३॥
अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम् । जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः ॥१-७३-२४॥
ततः सीतां समानीय सर्वाभरणभूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥१-७३-२५॥
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् । इयं सीता मम सुता सहधर्मचरी तव ॥१-७३-२६॥
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । पतिव्रता महाभागा छायेवानुगता सदा ॥१-७३-२७॥
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा । साधुसाध्विति देवानामृषीणां वदतां तदा ॥१-७३-२८॥
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् । एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम् ॥१-७३-२९॥
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः । लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ॥१-७३-३०॥
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः । तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥१-७३-३१॥
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन । शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः ॥१-७३-३२॥
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना । सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ॥१-७३-३३॥
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः । जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ॥१-७३-३४॥
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः । अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥१-७३-३५॥
ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः । यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम् ॥१-७३-३६॥
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा । दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥१-७३-३७॥
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम् । विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥१-७३-३८॥
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते । त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥१-७३-३९॥
अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः । राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥१-७३-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशरथपुत्रोद्वाहः नाम त्रिसप्ततितमः सर्गः ॥१-७३॥