कुमारोत्पत्तिः

बालकाण्डः / कुमारोत्पत्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे कुमारोत्पत्तिः नाम सप्तत्रिंशः सर्गः ॥१-३७॥
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥
येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥
इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥
ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥
देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥
तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥
काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥
मलं तस्याभवत् तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥
जातरूपमिति ख्यातं तदाप्रभृति राघव । सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे कुमारोत्पत्तिः नाम सप्तत्रिंशः सर्गः ॥१-३७॥