उमामाहात्म्यम्

बालकाण्डः / उमामाहात्म्यम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे उमामाहात्म्यम् नाम षड्त्रिंशः सर्गः ॥१-३६॥
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि । विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी । कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा राम कृतोद्वाहो शितिकण्ठो महातपाः ॥१-३६-५॥
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे । तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥१-३६-२४॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः । गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे उमामाहात्म्यम् नाम षड्त्रिंशः सर्गः ॥१-३६॥