प्रह्लाद चरितम्

प्रह्लाद चरितम्

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
चतुर्विंशम् दशकम्
प्रह्लाद चरितम्
हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितधृतिरेतस्य सहज: । हिरण्यप्रारम्भ: कशिपुरमरारातिसदसि प्रतिज्ञामातेने तव किल वधार्थं मधुरिपो ॥१॥
विधातारं घोरं स खलु तपसित्वा नचिरत: पुर: साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥२॥
निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपो: बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥३॥
ततोऽस्य प्रह्लाद: समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । स वै जात्या दैत्य: शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥४॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥५॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृति: । गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥६॥
स शूलैराविद्ध: सुबहु मथितो दिग्गजगणै: महासर्पैर्दष्टोऽप्यनशनगराहारविधुत: । गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥७॥
तत: शङ्काविष्ट: स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥८॥
पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्ध: प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥९॥
अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तंभं चलितकरवालो दितिसुत: । अत: पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥१०॥