दक्ष चरितम् चित्रकेतु उपाख्यानम् च

दक्ष चरितम् चित्रकेतु उपाख्यानम् च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
त्रयोविंशम् दशकम्
दक्ष चरितम् चित्रकेतु उपाख्यानम् च
प्राचेतसस्तु भगवन्नपरो हि दक्ष: त्वत्सेवनं व्यधित सर्गविवृद्धिकाम: । आविर्बभूविथ तदा लसदष्टबाहु: तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥१॥
तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं श्रीनारदस्य वचसा तव मार्गमापु: । नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥२॥
षष्ट्या ततो दुहितृभि: सृजत: कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूप: । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्र: ॥३॥
प्राक्शूरसेनविषये किल चित्रकेतु: पुत्राग्रही नृपतिरङ्गिरस: प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- सङ्घैरमुह्यदवशस्तव माययासौ ॥४॥
तं नारदस्तु सममङ्गिरसा दयालु: सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥५॥
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्ठमतिरन्वभजद्भवन्तम् ॥६॥
तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभि: प्रसन्नो दत्वाऽऽत्मतत्त्वमनुगृह्य तिरोदधाथ ॥७॥
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । सङ्गापयन् गुणगणं तव सुन्दरीभि: सङ्गातिरेकरहितो ललितं चचार ॥८॥
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं तं शङ्करं परिहसन्नुमयाभिशेपे ॥९॥
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । भक्त्यात्मतत्त्वकथनै: समरे विचित्रं शत्रोरपि भ्रममपास्य गत: पदं ते ॥१०॥
त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपि तान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥११॥