अध्याय ३५
शुक्लयजुर्वेदः / संहिता / माध्यन्दिन-वाजसनेयी / अध्याय ३५
Script
Translation
Previous
अध्याय ३४
Next
अध्याय ३६
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यवः॑ ।
अ॒स्य लो॒कः सु॒ताव॑तः ।
द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॒क्तं य॒मो द॑दात्वव॒सान॑मस्मै ॥१॥
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँल्लो॒कमि॑च्छतु ।
तस्मै॑ युज्यन्तामु॒स्रियाः॑ ॥२॥
वा॒युः पु॑नातु स॑वि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ।
वि मु॑च्यन्तामु॒स्रियाः॑ ॥३॥
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥४॥
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु ।
तस्मै॑ पृथिवि॒ शं भ॑व ॥५॥
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ ।
अप॑ नः॒ शोशु॑चद॒घम् ॥६॥
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाᳪ री॑रिषो॒ मोत वी॒रान् ॥७॥
शं वातः॒ शᳪ हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः ।
शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒ऽभि शू॑शुचन् ॥८॥
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।
अ॒न्तरि॑क्षᳪ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥९॥
अश्म॑न्वती रीयते॒ सᳪ र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः ।
अत्रा॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥१०॥
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑ ।
अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्य॑ᳪ सुव ॥११॥
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥१२॥
अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयᳪ स्व॒स्तये॑ ।
स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ स॒न्तार॑णो भव ॥१३॥
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१४॥
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥१५॥
अग्न॒ आयू॑ᳪषि पवस्व॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥१६॥
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥१७॥
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।
दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ२ आ द॑धर्षति ॥१८॥
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः ।
इहै॒वायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥१९॥
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान् परा॒के ।
मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिषः॒ सं न॑मन्ता॒ᳪ स्वाहा॑ ॥२०॥
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ।
अप॑ नः॒ शोशु॑चद॒घम् ॥२१॥
अ॒स्मात्त्वमधि॑ जा॒तो॒ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ ।
अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ॥२२॥
Previous
अध्याय ३४
Next
अध्याय ३६