अध्याय २

शुक्लयजुर्वेदः / संहिता / माध्यन्दिन-वाजसनेयी / अध्याय २

Back to Veda

Script

Translation

कृष्णो॑ऽस्याखरे॒ष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥१॥
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पोऽस्यूर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ॥२॥
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ॥३॥
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ᳪ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥४॥
स॒मिद॑सि सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । सवि॒तुर्बा॒हू स्थ॒ ऊर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ॥५॥
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द । ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॒म् ॥६॥
अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्त॒म् ॥७॥
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ᳪ संभ्रि॑यास॒मङि्॑घ्रणा विष्णो॒ मा त्वाव॑क्रमिषं वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसीत इन्द्रो॑ वी॒र्य॒मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ॥८॥
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य इन्द्र॒ आज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑ ॥९॥
मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ᳪ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिष॒ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ ॥१०॥
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्ये॒न॒ प्राश्ना॑मि ॥११॥
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ॥१२॥
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ॥१३॥
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि । अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाᳪसं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि ॥१४॥
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि । इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१५॥
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा ऽऽदि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् । व्यन्तु॒ वयो॒क्तᳪ रिहा॑णा म॒रुतां॒ पृषतीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह । च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ॥१६॥
यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः । तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ॥१७॥
स॒k स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः । इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् बर्हिषि॑ मादयध्व॒ ᳪ स्वाहा॒ वाट् ॥१८॥
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातᳪ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम् । यज्ञ॒ नम॑श्च त॒ उप॑ च य॒ज्ञस्य॑ शि॒वे संति॑ष्ठस्व॒ स्विष्टे मे॒ संति॑ष्ठस्व ॥१९॥
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्टयै पा॒हि दु॑रद्म॒न्या अ॑वि॒षं नः॑ पि॒तुं कृ॑णु सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ॥२०॥
वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भू॑याः । देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ॥२१॥
संब॒र्हिर॑ङ्क्ताᳪ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भिः॒ सम्म॒रुद्भिः॑ । समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥२२॥
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति । पोषा॑य॒ रक्ष॑सां भा॒गो॒ऽसि ॥२३॥
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ॥२४॥
दि॒वि विष्णु॒र्व्य॒क्रᳪस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्य॒क्रᳪस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णु॒र्व्य॒क्रᳪस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑ द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः सं ज्योति॑षाभूम ॥२५॥
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२६॥
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ग्ने॒ऽहं गृ॒हप॑तिना भूयासᳪ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः । अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तᳪ हिमाः॒ सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥२७॥
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं य ए॒वास्मि॒ सो॒ऽस्मि ॥२८॥
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षाँ॑सि वेदि॒षदः॑ ॥२९॥
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति । प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाल्लो॒कात्प्रणु॑दात्य॒स्मात् ॥३०॥
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३१॥
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरः॒ पित॑रो॒ नमो॑ वो गृ॒हान्नः॑ पितरो दत्त स॒तो वः॑ पितरो देष्मै॒तद्वः॑ पितरो॒ वास॒ आध॑त्त ॥३२॥
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ॥३३॥
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥