अध्याय २६

शुक्लयजुर्वेदः / संहिता / काण्व-वाजसनेयी / अध्याय २६

Back to Veda

Script

Translation

“अथ षड्विंशोऽध्यायः । अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ । पु॒रस्ता॑त्सारस्व॒ती मे॒ष्य॒धस्ता॒द्धन्वोः॑ ॥१॥
१ राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ सौर्ययामौ । श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयोः॑ ॥२॥
२ त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्यः॑ श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॑य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः । रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः ॥३॥
३ शि॒ति॒रन्ध्रो॒ऽन्यतः॑ शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुरन्यतः॑ शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः । पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरुण्यः॑ ॥४॥
४ शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः । श्येतः॑ श्येता॒क्षो॑ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णाया॒माः ॥५॥
५ अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः । पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः ॥६॥
६ फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ । प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽद्ध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः ॥७॥
७ कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः । कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्याः॑ ॥८॥
८ शि॒ल्पा वै॑श्वदे॒व्यो॒ रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै । सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ॥९॥
(३) ९ कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ रोहि॑ता रु॒द्राणा॑म् । श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ॥१॥
१० उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः । शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णाः ॥२॥
११ एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वाः । व॒शा मै॑त्रावरु॒ण्यो॒ऽन्यत॑ एन्यो मै॒त्र्यः॑ ॥३॥
१२ कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्या॒ अवि॑ज्ञाता॒ अदि॑त्यै । सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ॥४॥
१३ (१५४१) कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः । श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ॥५॥
(२) १४ धू॒म्रान्व॑स॒न्ताया ल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॑ । पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ॥१॥
१५ त्र्यव॑यो गायत्र्यै॒ पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै । त्रि॒व॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ॥२॥
१६ प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ । अ॒न॒ड्वाहः॑ प॒ङ्क्त्यै धे॒नवोऽति॑च्छन्दसे ॥३॥
१७ कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्यः॑ सारस्व॒त्यः॑ श्या॒माः पौ॒ष्णाः । पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ॥४॥
१८ उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः । कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ॥५॥
(३) १९ अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सांतप॒नेभ्यः॑ सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् । म॒रुद्भ्यः॑ क्री॒ळिभ्यः॑ ससृ॒ष्टान्म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान् ॥१॥
२० उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः । प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ॥२॥
२१ धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णा सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदा॑म् । कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ॥३॥
२२ उ॒क्ताः सं॑च॒रा एताः॑ शुनासी॒रीयाः॑ । श्वे॒ता वा॑य॒व्याः श्वे॒ताः सौ॒र्याः ॥४॥
२३ व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑काः । हे॒म॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ॥५॥
(४) २४ स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न् । मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान् ॥१॥
२५ सोमा॑य ह॒सानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न् । मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान् ॥२॥
२६ अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न् । अ॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ॥३॥
२७ (१५५५) सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः । कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ॥४॥
२८ अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयोः॑ सं॒धिभ्यो॑ ज॒तूः । मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ॥५॥
(५) २९ भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न् । दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्यः॑ ॥१॥
३० वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॑न् । विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान् ॥२॥
३१ ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान् । बृह॒स्पत॑ये गव॒यास्त्वष्ट्र॒ उष्ट्रा॑न् ॥३॥
३२ प्र॒जाप॑तये॒ पुरु॑षान् ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीन् । चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गाः॑ ॥४॥
३३ प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कटः॑ । शा॒र्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गोः॒ क्रिमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ॥५॥
(६) ३४ म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी । क॒ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्चः॑ ॥१॥
३५ सोमा॑य कुलु॒ङ्ग आ॑र॒ण्यो॒ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः । पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ॥२॥
३६ सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक् श्वा॒विद्भौ॒मी । शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक् ॥३॥
३७ सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॑ऽल॒ज आ॑न्तरि॒क्षः । प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दी॒पत॑ये द्यावापृथि॒वीयः॑ कू॒र्मः ॥४॥
३८ पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो ह॒सो वात॑स्य । ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ॥५॥
(७) ३९ ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणाँ॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्यै॑ । ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ॥१॥
४० अ॒न्य॒वा॒पो॑ऽर्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपः॑ । रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥२॥
४१ व॒र्षा॒हूरृ॑तू॒नामा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः । क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ॥३॥
४२ श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीन॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः । क्व॒यिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ॥४॥
४३ ख॒ङ्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः । सि॒हो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॑यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ॥५॥
(८) ४४ (१५७२) ॥इति शुक्लयजुःकाण्वसंहितायां षड्विंशोऽध्यायः ॥२६॥