अध्याय २३

शुक्लयजुर्वेदः / संहिता / काण्व-वाजसनेयी / अध्याय २३

Back to Veda

Script

Translation

“अथ त्रयोविंशोऽध्यायः । इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥११॥
॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥२॥
२ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळो॒ अव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥३॥
३ स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑ळी॒क सु॒हवो॑ न एधि ॥४॥
४ म॒हीमू॒ षु मा॒तर॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒ची सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् ॥५॥
५ (१३५९) सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् । दे॒वीं नाव॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥६॥
६ सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम् । श॒तारि॑त्रा स्व॒स्तये॑ ॥७॥
७ आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजा॑सि सुक्रतू ॥८॥
८ प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥९॥
९ शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१०॥
॥ १० ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वतु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ता इव॒ त्मना॑ म॒हो ये धन॑ समि॒थेषु॑ जभ्रि॒रे ॥११॥
॥ ११ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥१२॥
(१) १२ समि॑द्धो अ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यं त्र्यवि॒र्गौर्वयो॑ दधुः ॥१॥
१३ तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती । उ॒ष्णिहा॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाड् गौर्वयो॑ दधुः ॥२॥
१४ इळा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वो अम॑र्त्यः । अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यं पञ्चा॑वि॒र्गौर्वयो॑ दधुः ॥३१॥
५ ॥ सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ॥४॥
१६ दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड् गौर्वयो॑ दधुः ॥५॥
१७ उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप् छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाड् गौर्वयो॑ दधुः ॥६॥
१८ दै॑व्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः ॥७॥
१९ ति॒स्र इळा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विशः॑ । वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥८॥
२० त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौर्न वयो॑ दधुः ॥९॥
२१ श॒मि॒ता नो॒ वन॒स्पतिः॑ सवि॒ता प्र॑सु॒वन् भग॑म् । क॒कुप् छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ॥१०॥
॥ २२ स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भे॑ष॒जं क॑रत् । अति॑च्छन्दा इन्द्रि॒यं बृ॒हदृ॑ष॒भो गौ॒र्वयो॑ दधुः ॥११॥
॥(२) २३ (१३७७) व॒स॒न्तेन॑ ऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः । र॒थन्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥१॥
२४ ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः । बृ॒ह॒ता यश॑सा॒ बल॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२॥
२५ व॒र्षाभि॑रृ॒तुना॑दि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः । वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥३॥
२६ शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कविश ऋ॒भव॑ स्तु॒ताः । वै॒रा॒जेन॑ श्रि॒या श्रिय॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥४॥
२७ हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः । बले॑न॒ शक्व॒रीः सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥५॥
२८ शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒शे॒ऽमृता॑ स्तु॒ताः । स॒त्येन॑ रे॒वतीः॑ क्ष॒त्र ह॒विरिन्द्रे॒ वयो॑ दधुः ॥६॥
(३) २९ होता॑ यक्षत्स॒मिधा॒ग्निमि॒ळस्प॒दे॒ऽश्विनेन्द्र॒ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमैः॒ कुव॑लैर्भेष॒जं मधु॑ । शष्पै॒र्न तेज॑ इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१॥
३० होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं॑म् । बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वा॑स्य॒ होत॑र्यज ॥२॥
३१ होता॑ यक्ष॒न्नरा॒शसं॒ न न॒ग्नहुं॒ पति॒ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्यश्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यम् । बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३॥
३२ होता॑ यक्ष॒दिळे॑ळि॒त आ॒जुह्वा॑नः॒ सर॑स्वती॒मिन्द्रं॒ बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यमश्विनेन्द्रा॑य भेष॒जम् । यवैः॑ क॒र्कन्धु॑भि॒र्मधु॑ ला॒जैर्न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥४॥
३३ होता॑ यक्षद्ब॒र्हिरूर्ण॑म्रदा भि॒षङ् नास॑त्या भि॒षजा॒श्विनाश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षक् । दु॒ह इन्द्रा॑य भेष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥५॥
३४ होता॑ यक्ष॒द्दुरो॒ दिशः॑ कव॒ष्यो॒ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ इन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रं न ज्योति॑रिन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥६॥
३५ होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒श्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज ॥७॥
३६ होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒श्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः । शूष॒ सर॑स्वती भि॒षक् सीसे॑न दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥८॥
३७ (१३९१) होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेळा॒ न भार॑ती । वा॒चा सर॑स्वती॒ मह॒ इन्द्रा॑य दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥९॥
३८ होता॑ यक्षत् सुरेत॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भेष॒जं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षक् । यशः॒ सुर॑या भेष॒ज श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१०॥
॥ ३९ होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तुं भी॒मं न म॒न्यु राजा॑नं व्या॒घ्रं नम॑सा॒श्विना॑ । भाम॒ सर॑स्वती भि॒षगिन्द्रा॑य दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥११॥
॥ ४० होता॑ यक्षद॒ग्नि स्वाहाज्य॑स्य स्तो॒काना॒ स्वाहा॒ मेद॑सां॒ पृथ॒क् स्वाहा॒ छाग॑म॒श्विभ्या॒ स्वाहा॑ मे॒ष सर॑स्वत्यै । स्वाह॑ ऋष॒भमिन्द्रा॑य सि॒हाय॒ सह॑स इन्द्रि॒य स्वाहा॒ग्निं न भे॑ष॒ज स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्र॑ सु॒त्रामा॑ण सवि॒तारं॒ वरु॑णं भि॒षजां॒ पति॒ स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णो अ॒ग्निर्भे॑ष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१२॥
(४) ४१ होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेता॑ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥१॥
४२ होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ सु॒त्रामा॑णमि॒मे सोमाः॑ सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑ष॒भैः सु॒ताः । शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्रस्थि॑ता वो मधु॒श्च्युत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ सो॒म्यं मधु॒ । पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ॥२॥
४३ (१३९७) होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ ह॒विर्होत॑र्यज । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒व सर॑स्वती जु॒षता॑ ह॒विर्होत॑र्यज । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥३॥
४४ होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्टया रश॒नयाधि॑त । यत्रा॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य ऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ । यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि । यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि॒ यत्र॒ वन॒स्पतेः॑ प्रि॒या पाथा॑सि ॥ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । तत्रै॒तान्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द्रभी॑यस इव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥४॥
४५ होता॑ यक्षद॒ग्नि स्वि॑ष्ट॒कृत॒मया॑ळ॒ग्निर॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॒न्यया॒ट सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॒ळिन्द्र॑स्य ऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि । अया॑ळ॒ग्नेः प्रि॒या धामा॒न्यया॒ट् सोम॑स्य प्रि॒या धामा॒न्यया॒ळिन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि । अया॑ट् सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पतेः॑ प्रि॒या पाथा॑सि । अया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । यक्ष॒त्स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ इषः॑ कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दा जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥५॥
४६ दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ अ॒श्विना॑ । तेजो॒ न चक्षु॑र॒क्ष्यो॑र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥१॥
४७ दे॒वीर्द्वारो॑ अ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णं न वी॒र्यं॑ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥२॥
४८ (१४०२) दे॒वी उ॒षासा॑ अ॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती । बलं॒ न वाच॑मा॒स्य॑ उ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥३॥
४९ दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन् । श्रोत्रं॒ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४॥
५० दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वतः । शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५॥
५१ दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒ इन्द्र॑म॒श्विना॑ वषट्का॒रैः सर॑स्वती॒ त्विषिं॒ न हृद॑ये म॒तिम् । होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥६॥
५२ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेळा॒ सर॑स्वती । शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥७॥
५३ दे॒व इन्द्रो॒ नरा॒शस॑स्त्रिवरू॒थः सर॑स्वत्या॒श्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥८॥
५४ दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो अ॒श्विभ्या॒ सर॑स्वत्या सुपिप्प॒ल इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिरृ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥९॥
५५ दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्ण॑म्रदाः॒ सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्यु राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥१०॥
॥ ५६ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थ होता॑रा॒ इन्द्र॑म॒श्विना॑ वा॒चा वाच॒ सर॑स्वतीम॒ग्नि सोम॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पतिः॒ स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः । स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चिति स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥११॥
॥ ५७ अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न् पक्तीः॒ पच॑न् पुरो॒ळाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भम् । सु॒न्वन्न॒श्विभ्या॒ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ॥१२॥
५८ सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑य ऋष॒भेण॑ । अक्ष॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒ळाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ सुरासो॒मान् ॥१३॥
५९ त्वाम॒द्य ऋ॑ष आर्षेय ऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ आ संग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या॑यक्ष्यत॒ इति॒ । ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥१४॥
(६) ६० (१४१४) ॥इति शुक्लयजुःकाण्वसंहितायां त्रयोविंशोऽध्यायः ॥२३॥