अध्याय १८

शुक्लयजुर्वेदः / संहिता / काण्व-वाजसनेयी / अध्याय १८

Back to Veda

Script

Translation

“अथाष्टादशोऽध्यायः । अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ अधि॒ संभृ॑तं॒ पयः॑ । तां न॒ इष॒मूर्जं॑ धत्त मरुतः सररा॒णा अश्म॑स्ते॒ क्षुन्मयि॑ त॒ ऊर्यं व द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥१॥
१ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ । स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च ॥२॥
२ अर्बु॑दं च॒ न्य॑र्बुदं समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्च॑ । ए॒ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के ॥३॥
३ ऋ॒तव॑ स्थ ऋता॒वृध॑ ऋतु॒ष्ठा स्थ॑ ऋता॒वृधः॑ । घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ अक्षी॑यमाणाः ॥४॥
४ स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥५॥
५ हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥६॥
६ (१००४) उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒राग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्ण शिवं कृ॑धि ॥७॥
७ अ॒पामि॒दं न्यय॑न समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥८॥
८ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥९॥
९ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ३ इ॒हा व॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ॥१०॥
॥ १० पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥११॥
॥ ११ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । नृ॒षदे॒ वेळ॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् । व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ॥१२॥
१२ ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑ना संवत्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ॥१३॥
१३ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्ये ब्रह्म॑णः पुरए॒तारो॑ अ॒स्य । येभ्यो॑ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥१४॥
१४ प्रा॒ण॒दा अ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥१५॥
(१) अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य॒त्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम् ॥१॥
१६ य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒३ आवि॑वेश (२) १७ किस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥३॥
१८ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ॥४॥
१९ कि स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥५॥
२० (१०१८) या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वः॑ वृधा॒नः ॥६॥
२१ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥७॥
२२ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥८॥
२३ विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ॥९॥
(२) २४ चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥१॥
२५ वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्त ऋ॒षीन्प॒र एक॑मा॒हुः ॥२॥
२६ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व त सं॑प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥३॥
२७ त आय॑जन्त॒ द्रवि॑ण॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥४॥
२८ प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ॥५॥
२९ तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒ अध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥६॥
३० न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥७॥
३१ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥८॥
(३) ३२ आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒त सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥१॥
३३(१०३१) सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥२॥
३४ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥३॥
३५ बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्राँ॑३ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥४॥
३६ ब॒ल॒वि॒ज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥५॥
३७ गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒म स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ सखायो॒ अनु॒ सँर॑भध्वम् ॥६॥
३८ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒ऽस्माक॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥७॥
३९ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥८॥
४० इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥९॥
४१ उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑सि । उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥१०॥
॥ ४२ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ३ उ॑ देवा अवता॒ हवे॑षु ॥११॥
॥ ४३ अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥१२॥
४४ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सशिते । गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒ मामीषां॒ कञ्च॒नोच्छि॑षः ॥१३॥
४५ प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥१४॥
४६ असौ॒ या सेना॑ मरुतः॒ परे॑षामभ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना । तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ॥१५॥
४७ यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्र॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥१६॥
४८ (१०४६) मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥१७॥
(४) ४९ उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ ससृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ॥१॥
५० इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वानां॑ भाग॒दा अ॑सत् ॥२॥
५१ यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥३॥
५२ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्व सु॒प्रती॑को वि॒भाव॑सुः ॥४॥
५३ पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं॒ दुर्म॒तिं बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्थात् ॥५॥
५४ समि॑द्धे अ॒ग्ना अधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः । त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ॥६॥
५५ दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः । प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुः ॥७॥
५६ वी॒त ह॒विः श॑मि॒त श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑ । ततो॑ वा॒का आ॒शिषो॑ नो जुषन्ताम् ॥८॥
५७ सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒३ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥९॥
५८ वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भिच॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥१०॥
॥ ५९ उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ विच॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥११॥
॥ ६० इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑म र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म् ॥१२॥
६१ दे॒व॒हूर्य॒ज्ञ आ च॑ वक्षत्सुम्न॒हूर्य॒ज्ञ आ च॑ वक्षत् । यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ३ आ च॑ वक्षत् ॥१३॥
६२ वज॑स्य मा प्रस॒व उ॑द्ग्रा॒भेणोद॑ग्रभीत् । अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ३ अ॒कः ॥१४॥
६३ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥१५॥
(५) ६४ क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वस्पृ॒ष्ठ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥१॥
६५ (१०६३) प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥२॥
६६ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम् ॥३॥
६७ स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्या रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धार सुवि॑द्वासो वितेनि॒रे ॥४॥
६८ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥५॥
६९ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥६॥
७० अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः । त्व सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥७॥
७१ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द । भा॒सान्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ह ॥८॥
७२ आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासी॑द साधु॒या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥९॥
७३ ता स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑ना स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ॥१०॥
॥ ७४ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीषि॑ जुहुरे॒ समि॑द्धे ॥११॥
॥ ७५ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वा शश्व॑न्त॒ उप॑यन्ति॒ वाजाः॑ ॥१२॥
७६ अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्र हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥१३॥
७७ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो॑त्रा ऋता॒वृधः॑ । पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्य ह॒वि ॥१४॥
७८ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ॥१५॥
(६) ७९ शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माश्च । शु॒क्रश्च॑ ऋत॒पाश्चात्य॑हाः ॥१॥
८० (१०७८) ई॒दृङ् चा॑न्य॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च । मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः ॥२॥
८१ ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च । अन्ति॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः ॥३॥
८२ ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च । ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ॥४॥
८३ ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् ॥५॥
८४ स्वत॑वाश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑ । क्री॒ळी च॑ शा॒की चो॑ज्जे॒षी ॥६॥
८५ इन्द्रं दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् । ए॒वमि॒मं यज॑मानं दैवीश्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ॥७॥
(७) ८६ (१०८४) इति शुक्लयजुः काण्वसंहितायां अष्टादशोऽध्यायः ॥१८॥