अध्याय १०
शुक्लयजुर्वेदः / संहिता / काण्व-वाजसनेयी / अध्याय १०
Script
Translation
Previous
अध्याय ९
Next
अध्याय ११
“अथ दशमोऽध्यायः ।
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑वे॒मं भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पाः केतं॑ नः पुनातु वा॒चस्पति॑र्नो अ॒द्य वाज॑ स्वदतु ॥१॥
१ ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥२॥
२(४६०) अ॒प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
पृ॒थि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥३॥
अ॒पा रस॒मुद्व॑यस॒ सूर्ये॒ सन्त॑ स॒माहि॑तम् ।
अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒मम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥४॥
४ ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् ।
तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ सम॑ग्रभम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥५॥
५ सं॒पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त ।
वि॒पृच॑ स्थ॒ वि मा॑ पा॒पेन॑ पृङ्क्त ॥६॥
(१)६ इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒ यं वाज॑ सेत् ।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषक् ॥१॥
७ देवी॑रापो अपांनपा॒द्यो व॑ ऊ॒र्मिः प्रतू॑र्तिः ।
क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑सेत् ॥२॥
८ अ॒प्स्व॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तिभिः ।
अश्वा॒ भव॑त वा॒जिनः॑ ॥३॥
९ वातो॑ वा वो॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑शतिः ।
ते अग्रेऽश्व॑मयुञ्ज॒स्ते अ॑स्मिन्ज॒वमाद॑धुः ॥४॥
१० वात॑रहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ ।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥५॥
११ ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ ।
तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्चै॒धि सम॑ने च पारयि॒ष्णुः ॥६॥
१२ वाजि॑नो वाजजितो॒ वाज॑ सरि॒ष्यन्तः॑ ।
बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ॥७॥
(२) १३ दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः ।
बृह॒स्पते॑रुत्त॒मं नाक॑ रुहे॒मेन्द्र॑स्योत्त॒मं नाक॑ रुहेम ।
दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः ।
बृह॒स्पते॑रुत्त॒मं नाक॑मरुहा॒मेन्द्र॑स्योत्त॒मं नाक॑मरुहाम ॥१॥
१४ बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत ।
बृह॒स्पतिं॒ वाजं॑ जापयत ॥२॥
१५ इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वदत ।
इन्द्रं॒ वाजं॑ जापयत ॥३॥
१६ ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जपत ।
आजी॑जपत॒ बृह॒स्पतिं॒ वाचं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥४॥
१७ दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः ।
बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ॥५॥
१८ (४७६) वाजि॑नो॒ वाजं॑ जय॒ताध्व॑न स्क॒भ्नन्तः॑ ।
योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥६॥
१९ ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ स॒न्तवी॑त्वत्प॒थामङ्का॒स्यन्वा॒पनी॑फणत् ॥७॥
२० ॥ उ॒त स्मा॑स्य॒ द्रव॑तस्तुरणय॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥८॥
२१ ॥ शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥९॥
२२ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ता इव॒ त्मना॑ म॒हो ये धन॑ समि॒थेषु॑ जभ्रि॒रे ॥१०॥
॥ २३ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११॥
॥ २४ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे ।
आ मा॑ गंतं पितरा मातरा यु॒वमा मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥१२॥
२५ वाजि॑नो वाजजितो॒ वाज॑ ससृ॒वासः॑ ।
बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥१३॥
(३) २६ आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ ।
वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहा॑ ।
अह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ ॥१॥
२७ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पताम् ।
पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥२॥
२८ जाय॒ एहि॒ स्वो॒ रोहा॑व ।
प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॑र्देवा अगन्मा॒मृता॑ अभूम ॥३॥
२९ अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतुः॑ ।
अ॒स्मे वर्चा॑सि सन्तु वः ॥४॥
३० नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड्य॒न्तासि॒ यम॑नः ।
ध्रु॒वो॑ऽसि ध॒रुणः॑ कृ॒ष्यै क्षेमा॑य र॒य्यै पोषा॑य ॥५॥
(४) ३१ वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ राजा॑न॒मोष॑धीष्व॒प्सु ।
ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः ॥१॥
३२ वाज॑स्ये॒दं प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ ।
सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् र॒यिं पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥२॥
३३ (४९१) वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
आदि॑त्सन्तं दापयति प्रजा॒न्त्स नो॑ र॒यि सर्व॑वीरं॒ निय॑च्छतु॒ ॥३॥
३४ अग्ने॒ अच्छा॑वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव ।
प्र नो॑ यच्छ सहस्रजि॒त्त्वहि ध॑न॒दा असि॑ ॥४॥
३ ॥५॥
सोम॒ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे ।
आ॒दि॒त्यान् विष्णु॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥५॥
३६ प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र सर॑स्वती ।
प्र वाग्दे॒वी द॑दातु नः ॥६॥
३७ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
वाचं॒ विष्णु॒ सर॑स्वती सवि॒तारं॑ च वा॒जिन॑म् ॥७॥
३८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो यन्तुर्ये॒ दधामि ।
बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य त्वा साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥८॥
(५) ३९ अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्य॑क्षरेण द्वि॒पदो॑ मनु॒ष्या॒नुद॑जयतां॒ तानुज्जे॑षम् ।
विष्णु॒स्त्र्य॑क्षरेण॒ त्रीनि॒माँल्लो॒कानुद॑जय॒त्तानुज्जे॑ष॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ॥१॥
४० पू॒षा पञ्चा॑क्षरेण॒ पञ्च॑ ऋ॒तूनुद॑जय॒त्तानुज्जे॑ष सवि॒ता षळ॑क्षरेण॒ षळृ॒तूनुद॑जय॒त्तानुज्जे॑षम् ॥ म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् पशू॒नुद॑जय॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ॥२॥
४१ मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑षम् ।
इन्द्र॒ एकाद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒स्तामुज्जे॑षम् ॥३॥
४२ वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑षम् ।
आ॒दि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष॒मदि॑तिः॒ षोळ॑शाक्षरेण षोळ॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।
प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण स॒प्तद॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ॥४॥
(६) ४३ (५०१) ॥इति शुक्लयजुः काण्वसंहितायां दशमोऽध्यायः ॥ (१०) ॥इति प्रथमो दशकः ॥१॥
Previous
अध्याय ९
Next
अध्याय ११