सूक्त ७
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ७
Script
Translation
Previous
सूक्त ६
Next
सूक्त ८
९ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।
वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥१॥
प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ॥२॥
प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥३॥
परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
स्व॑र्वा॒जी सि॑षासति ॥४॥
पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
यदी॑मृ॒ण्वन्ति॑ वे॒धसः॑ ॥५॥
अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
रे॒भो व॑नुष्यते म॒ती ॥६॥
स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥७॥
आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ ।
वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥८॥
अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥९॥
Previous
सूक्त ६
Next
सूक्त ८