सूक्त ६७
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ६७
Script
Translation
Previous
सूक्त ६६
Next
सूक्त ६८
(१-३२) १-३ भरद्वाजो बार्हस्पत्यः, ४-६ कश्यपो मारीचः, ७-९ गोतमो राहूगणः, १०-१२ अत्रिर्भौमः, १३-१५ विश्वामित्रो गाथिनः, १६-१८ जमदग्निर्भार्गवः, १९-२१ वसिष्ठो मैत्रावरुणिः,२२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा । पवमानः सोमः, १०-१२ पवमानः पूषा वा, २३-२७ पवमानोऽग्निः, २५ पवमानः सविता वा, २६ पवमानाग्निसवितारः, २७ विश्वे देवा वा , ३१-३२ पवमान्यध्येता ।गायत्री, १६ -१८ नित्यद्विपदा गायत्री , ३० पुरउष्णिक्; २७ ,३१ ,३२, अनुष्टुप् ।
त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
पव॑स्व मंह॒यद्र॑यिः ॥१॥
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
इन्द्रा॑य सू॒रिरन्ध॑सा ॥२॥
त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥३॥
इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
हरि॒र्वाज॑मचिक्रदत् ॥४॥
इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
वि वाजा॑न्त्सोम॒ गोम॑तः ॥५॥
आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
भरा॑ सोम सह॒स्रिण॑म् ॥६॥
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
इन्द्रं॒ यामे॑भिराशत ॥७॥
क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
आ॒युः प॑वत आ॒यवे॑ ॥८॥
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत॑म् ।
अ॒भि गि॒रा सम॑स्वरन् ॥९॥
अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।
आ भ॑क्षत्क॒न्या॑सु नः ॥१०॥
अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥११॥
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥१२॥
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
दे॒वेषु॑ रत्न॒धा अ॑सि ॥१३॥
आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥१४॥
परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
श्ये॒नो न त॒क्तो अ॑र्षति ॥१५॥
पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥१६॥
असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥१७॥
ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥१८॥
ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥१९॥
ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥२०॥
यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज्ज॑हि ॥२१॥
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता स पु॑नातु नः ॥२२॥
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥२३॥
यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥२४॥
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥२५॥
त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ पुनीहि नः ॥२६॥
पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥२७॥
प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥२८॥
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥२९॥
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
आ॒खुं चि॑दे॒व दे॑व सोम ॥३०॥
यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥३१॥
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥३२॥
Previous
सूक्त ६६
Next
सूक्त ६८