सूक्त ६५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ६५
Script
Translation
Previous
सूक्त ६४
Next
सूक्त ६६
३० भृगुर्वारुणिजमदग्निर्भार्गवो वा । पवमानः सोमः । गायत्री ।
हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा॑रो जा॒मय॒स्पति॑म् ।
म॒हामिन्दुं॑ मही॒युवः॑ ॥१॥
पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ ।
विश्वा॒ वसू॒न्या वि॑श ॥२॥
आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
इ॒षे प॑वस्व सं॒यत॑म् ॥३॥
वृषा॒ ह्यसि॑ भा॒नुना॑ द्यु॒मन्तं॑ त्वा हवामहे ।
पव॑मान स्वा॒ध्यः॑ ॥४॥
आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध ।
इ॒हो ष्वि॑न्द॒वा ग॑हि ॥५॥
यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
द्रुणा॑ स॒धस्थ॑मश्नुषे ॥६॥
प्र सोमा॑य व्यश्व॒वत्पव॑मानाय गायत ।
म॒हे स॒हस्र॑चक्षसे ॥७॥
यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥८॥
तस्य॑ ते वा॒जिनो॑ व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
स॒खि॒त्वमा वृ॑णीमहे ॥९॥
वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः ।
विश्वा॒ दधा॑न॒ ओज॑सा ॥१०॥
तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३ः पव॑मान स्व॒र्दृश॑म् ।
हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥११॥
अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या ।
युजं॒ वाजे॑षु चोदय ॥१२॥
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥१३॥
आ क॒लशा॑ अनूष॒तेन्दो॒ धारा॑भि॒रोज॑सा ।
एन्द्र॑स्य पी॒तये॑ विश ॥१४॥
यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः ।
स प॑वस्वाभिमाति॒हा ॥१५॥
राजा॑ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ ।
अ॒न्तरि॑क्षेण॒ यात॑वे ॥१६॥
आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ।
वहा॒ भग॑त्तिमू॒तये॑ ॥१७॥
आ नः॑ सोम॒ सहो॒ जुवो॑ रू॒पं न वर्च॑से भर ।
सु॒ष्वा॒णो दे॒ववी॑तये ॥१८॥
अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥१९॥
अ॒प्सा इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥२०॥
इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥२१॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
ये वा॒दः श॑र्य॒णाव॑ति ॥२२॥
य आ॑र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये॑ प॒स्त्या॑नाम् ।
ये वा॒ जने॑षु प॒ञ्चसु॑ ॥२३॥
ते नो॑ वृ॒ष्टिं दि॒वस्परि॒ पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥२४॥
पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना ।
हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥२५॥
प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥२६॥
तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये ।
स प॑वस्वा॒नया॑ रु॒चा ॥२७॥
आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥२८॥
आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥२९॥
आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥३०॥
Previous
सूक्त ६४
Next
सूक्त ६६