सूक्त ५५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५५
Script
Translation
Previous
सूक्त ५४
Next
सूक्त ५६
४ अवत्सारः काश्यपः । पवमानः सोमः । गायत्री ।
यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव ।
सोम॒ विश्वा॑ च॒ सौभ॑गा ॥१॥
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥२॥
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा ।
म॒क्षूत॑मेभि॒रह॑भिः ॥३॥
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
स प॑वस्व सहस्रजित् ॥४॥
Previous
सूक्त ५४
Next
सूक्त ५६