सूक्त ५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५
Script
Translation
Previous
सूक्त ४
Next
सूक्त ६
११ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।
प्री॒णन्वृषा॒ कनि॑क्रदत् ॥१॥
तनू॒नपा॒त्पव॑मानः॒ शृङ्गे॒ शिशा॑नो अर्षति ।
अ॒न्तरि॑क्षेण॒ रार॑जत् ॥२॥
ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
मधो॒र्धारा॑भि॒रोज॑सा ॥३॥
ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।
दे॒वेषु॑ दे॒व ई॑यते ॥४॥
उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।
पव॑मानेन॒ सुष्टु॑ताः ॥५॥
सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
नक्तो॒षासा॒ न द॑र्श॒ते ॥६॥
उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
पव॑मान॒ इन्द्रो॒ वृषा॑ ॥७॥
भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥८॥
त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥९॥
वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥१०॥
विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥११॥
Previous
सूक्त ४
Next
सूक्त ६