सूक्त २४
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त २४
Script
Translation
Previous
सूक्त २३
Next
सूक्त २५
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥१ अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
पु॒ना॒ना इन्द्र॑माशत ॥२॥
प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
नृभि॑र्य॒तो वि नी॑यसे ॥३॥
त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।
सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥४॥
इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥५॥
पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ ।
शुचिः॑ पाव॒को अद्भु॑तः ॥६॥
शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।
दे॒वा॒वीर॑घशंस॒हा ॥७॥
Previous
सूक्त २३
Next
सूक्त २५