सूक्त १
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १
Script
Translation
Next
सूक्त २
१० मधुच्छन्दा वैश्वामित्रः । पवमानः सोमः । गायत्री ।
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तः ॥१॥
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् ।
द्रुणा॑ स॒धस्थ॒मास॑दत् ॥२॥
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः ।
पर्षि॒ राधो॑ म॒घोना॑म् ॥३॥
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥४॥
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
इन्दो॒ त्वे न॑ आ॒शसः॑ ॥५॥
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ॥६॥
तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ ।
स्वसा॑रः॒ पार्ये॑ दि॒वि ॥७॥
तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् ।
त्रि॒धातु॑ वार॒णं मधु॑ ॥८॥
अ॒भी॒३ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु॑म् ।
सोम॒मिन्द्रा॑य॒ पात॑वे ॥९॥
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
शूरो॑ म॒घा च॑ मंहते ॥१०॥
Next
सूक्त २