सूक्त ९२
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ९२
Script
Translation
Previous
सूक्त ९१
Next
सूक्त ९३
३४ सुकक्ष आङ्गिरसः । इन्द्रः, ३४ इन्द्र-ऋभवश्च । गायत्री ।
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य ॥१॥
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।
अहिं॑ च वृत्र॒हाव॑धीत् ॥२॥
स न॒ इन्द्रः॑ शि॒वः सखाऽश्वा॑व॒द्गोम॒द्यव॑मत् ।
उ॒रुधा॑रेव दोहते ॥३॥
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥४॥
यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
उ॒तो तत्स॒त्यमित्तव॑ ॥५॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥६॥
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ॥७॥
इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः ॥८॥
गि॒रा वज्रो॒ न सम्भृ॑तः॒ सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥९॥
दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।
त्वं च॑ मघव॒न्वशः॑ ॥१०॥
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।
न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥११॥
अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।
उ॒भे सु॑शिप्र॒ रोद॑सी ॥१२॥
त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।
परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥१३॥
वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।
वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥१४॥
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।
अजा॑तशत्रु॒रस्तृ॑तः ॥१५॥
श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।
आ शु॑षे॒ राध॑से म॒हे ॥१६॥
अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
यत्सोमे॑सोम॒ आभ॑वः ॥१७॥
बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥१८॥
कया॒ त्वं न॑ ऊ॒त्याऽभि प्र म॑न्दसे वृषन् ।
कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥१९॥
कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ॥२०॥
अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।
प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥२१॥
पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।
अ॒पां जग्मि॑र्निचुम्पु॒णः ॥२२॥
इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।
अच्छा॑वभृ॒थमोज॑सा ॥२३॥
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥२४॥
तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥२५॥
आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।
स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥२६॥
आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।
स्तो॒तृभ्य॑ इन्द्र मृळय ॥२७॥
भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥२८॥
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥२९॥
त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥३०॥
उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३१॥
द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्रः॑ श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३२॥
त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३३॥
इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।
वा॒जी द॑दातु वा॒जिन॑म् ॥३४॥
Previous
सूक्त ९१
Next
सूक्त ९३