सूक्त ९०
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ९०
Script
Translation
Previous
सूक्त ८९
Next
सूक्त ९१
७ आत्रेयी अपाला । इन्द्रः । अनुष्टुप् , १-२ पंक्तिः ।
क॒न्या॒३ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।
अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥१॥
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।
इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥२॥
आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।
शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव ॥३॥
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै ॥४॥
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय ।
शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥५॥
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१ मम॑ ।
अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥६॥
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो ।
अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचम् ॥७॥
Previous
सूक्त ८९
Next
सूक्त ९१