सूक्त ८
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ८
Script
Translation
Previous
सूक्त ७
Next
सूक्त ९
२३ सध्वंसः काण्वः । अश्विनौ ।अनुष्टुप् ।
आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥१॥
आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥२॥
आ या॑तं॒ नहु॑ष॒स्पर्याऽऽन्तरि॑क्षात्सुवृ॒क्तिभिः॑ ।
पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥३॥
आ नो॑ यातं दि॒वस्पर्याऽन्तरि॑क्षादधप्रिया ।
पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥४॥
आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥५॥
यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥६॥
दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।
धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥७॥
किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥८॥
आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥९॥
आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥१०॥
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥११॥
पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।
स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥१२॥
आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥१३॥
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥१४॥
यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥१५॥
प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।
यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥१६॥
आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥१७॥
आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥१८॥
आ नो॑ गन्तं मयो॒भुवाऽश्वि॑ना श॒म्भुवा॑ यु॒वम् ।
यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥१९॥
याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।
याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥२०॥
याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
ताभिः॒ ष्व१स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥२१॥
प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।
पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥२२॥
त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।
क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥२३॥
Previous
सूक्त ७
Next
सूक्त ९