सूक्त ७६
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ७६
Script
Translation
Previous
सूक्त ७५
Next
सूक्त ७७
११ कुरुसुतिः काण्वः । इन्द्रः ।गायत्री, १० -११ प्रगाथः= ( बृहती, सतोबृहती) ।
ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर॑म् ।
क उ॒ग्राः के ह॑ शृण्विरे ॥१॥
आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् ।
ते पु॑त्र सन्तु नि॒ष्टुरः॑ ॥२॥
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।
प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥३॥
एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शत॑म् ।
इन्द्रः॒ सोम॑स्य काणु॒का ॥४॥
अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।
इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥५॥
निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् ।
इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥६॥
श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।
यमि॑न्द्र चकृ॒षे युज॑म् ॥७॥
तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।
स॒द्यो जा॒त ऋ॑भुष्ठिर ॥८॥
ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।
हृ॒दा वी॒ड्व॑धारयः ॥९॥
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।
श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥१०॥
तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ ।
उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥११॥
Previous
सूक्त ७५
Next
सूक्त ७७