सूक्त ७१
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ७१
Script
Translation
Previous
सूक्त ७०
Next
सूक्त ७२
१८ हर्यतः प्रागाथः । अग्निः हवींषि वा । गायत्री ।
ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।
वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥१॥
नि ति॒ग्मम॒भ्यं१शुं सीद॒द्धोता॑ म॒नावधि॑ ।
जु॒षा॒णो अ॑स्य स॒ख्यम् ॥२॥
अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।
गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥३॥
जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।
दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥४॥
चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।
वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥५॥
उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।
दा॒मा रथ॑स्य॒ ददृ॑शे ॥६॥
दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।
ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥७॥
आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् ।
खेद॑या त्रि॒वृता॑ दि॒वः ॥८॥
परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।
मध्वा॒ होता॑रो अञ्जते ॥९॥
सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।
नी॒चीन॑बार॒मक्षि॑तम् ॥१०॥
अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।
अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥११॥
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।
उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥१२॥
आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।
र॒सा द॑धीत वृष॒भम् ॥१३॥
ते जा॑नत॒ स्वमो॒क्यं१ सं व॒त्सासो॒ न मा॒तृभिः॑ ।
मि॒थो न॑सन्त जा॒मिभिः॑ ॥१४॥
उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।
इन्द्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥१५॥
अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।
सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥१६॥
सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।
तदातु॑रस्य भेष॒जम् ॥१७॥
उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् ।
परि॒ द्यां जि॒ह्वया॑तनत् ॥१८॥
Previous
सूक्त ७०
Next
सूक्त ७२