सूक्त ६९
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ६९
Script
Translation
Previous
सूक्त ६८
Next
सूक्त ७०
१५ पुरुहन्मा आङ्गिरसः । इन्द्रः । बृहती ; १-६ प्रगाथः = ( विषमा बृहती, समा सतोबृहती ) १२ शंकुमती, १३ उष्णिक् , १४ अनुष्टुप् , १५ पुरउष्णिक् ।
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥१॥
इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥२॥
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् ।
इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥३॥
अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।
सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥४॥
यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥५॥
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।
अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ॥६॥
न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ ।
एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥७॥
तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् ।
यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥८॥
उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।
उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥९॥
त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।
मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥१०॥
अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् ।
अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥११॥
त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥१२॥
सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥१३॥
भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।
यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥१४॥
क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।
अ॒जां सू॒रिर्न धात॑वे ॥१५॥
Previous
सूक्त ६८
Next
सूक्त ७०