सूक्त ५५
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ५५
Script
Translation
Previous
सूक्त ५४
Next
सूक्त ५६
५ कृशः काण्वः । इन्द्रः, प्रस्कण्वश्च । गायत्री , ३, ५ अनुष्टुप् ।
भूरीदिन्द्र॑स्य वी॒र्यं१ व्यख्य॑म॒भ्याय॑ति ।
राध॑स्ते दस्यवे वृक ॥१॥
श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।
म॒ह्ना दिवं॒ न त॑स्तभुः ॥२॥
श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।
श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥३॥
सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ ।
अश्वा॑सो॒ न च॑ङ्क्रमत ॥४॥
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।
श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥५॥
Previous
सूक्त ५४
Next
सूक्त ५६