सूक्त ५
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ५
Script
Translation
Previous
सूक्त ४
Next
सूक्त ६
३९ ब्रह्मातिथिः काण्वः ।अश्विनौ, ३७ ( उत्तरार्धस्य ) – ३९ चैद्यः कशुः । गायत्री, ३७ -३८ बृहती , ३९ अनुष्टुप् ।
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
वि भा॒नुं वि॒श्वधा॑तनत् ॥१॥
नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
सचे॑थे अश्विनो॒षस॑म् ॥२॥
यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
वाचं॑ दू॒तो यथो॑हिषे ॥३॥
पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।
स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥४॥
मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।
गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥५॥
ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।
घृ॒तैर्गव्यू॑तिमुक्षतम् ॥६॥
आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।
या॒तमश्वे॑भिरश्विना ॥७॥
येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥८॥
उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।
वि प॒थः सा॒तये॑ सितम् ॥९॥
आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।
वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥१०॥
वा॒वृ॒धा॒ना शु॑भस्पती॒ दस्रा॒ हिर॑ण्यवर्तनी ।
पिब॑तं सो॒म्यं मधु॑ ॥११॥
अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।
छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥१२॥
नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।
मो ष्व१न्याँ उपा॑रतम् ॥१३॥
अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥१४॥
अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् ।
पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥१५॥
पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिणः॑ ।
वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥१६॥
जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृतः॑ ।
यु॒वां ह॑वन्ते अश्विना ॥१७॥
अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
यु॒वाभ्यां॑ भूत्वश्विना ॥१८॥
यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
ततः॑ पिबतमश्विना ॥१९॥
तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
वह॑तं॒ पीव॑री॒रिषः॑ ॥२०॥
उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा ।
अप॒ द्वारे॑व वर्षथः ॥२१॥
क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥२२॥
यु॒वं कण्वा॑य नासत्या॒ ऽपि॑रिप्ताय ह॒र्म्ये ।
शश्व॑दू॒तीर्द॑शस्यथः ॥२३॥
ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।
यद्वां॑ वृषण्वसू हु॒वे ॥२४॥
यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।
अत्रिं॑ शि॒ञ्जार॑मश्विना ॥२५॥
यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य॑म् ।
यथा॒ वाजे॑षु॒ सोभ॑रिम् ॥२६॥
ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
गृ॒णन्तः॑ सु॒म्नमी॑महे ॥२७॥
रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥२८॥
हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।
उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥२९॥
तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।
उपे॒मां सु॑ष्टु॒तिं मम॑ ॥३०॥
आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।
इषो॒ दासी॑रमर्त्या ॥३१॥
आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
पुरु॑श्चन्द्रा॒ नास॑त्या ॥३२॥
एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिनः॑ ।
अच्छा॑ स्वध्व॒रं जन॑म् ॥३३॥
रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
न च॒क्रम॒भि बा॑धते ॥३४॥
हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।
धीज॑वना॒ नास॑त्या ॥३५॥
यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
ता नः॑ पृङ्क्तमि॒षा र॒यिम् ॥३६॥
ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।
यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥३॥
॥ यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥३८॥
माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ ।
अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥३९॥
Previous
सूक्त ४
Next
सूक्त ६