सूक्त ४३
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ४३
Script
Translation
Previous
सूक्त ४२
Next
सूक्त ४४
३३ विरूप आङ्गिरसः । अग्निः । गायत्री ।
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
गिरः॒ स्तोमा॑स ईरते ॥१॥
अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिम् ॥२॥
आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।
द॒द्भिर्वना॑नि बप्सति ॥३॥
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥४॥
ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।
उ॒षसा॑मिव के॒तवः॑ ॥५॥
कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥६॥
धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
पुन॒र्यन्तरु॑णी॒रपि॑ ॥७॥
जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।
अ॒ग्निर्वने॑षु रोचते ॥८॥
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥९॥
उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।
निंसा॑नं जु॒ह्वो॒३ मुखे॑ ॥१०॥
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।
स्तोमै॑र्विधेमा॒ग्नये॑ ॥११॥
उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
अग्ने॑ स॒मिद्भि॑रीमहे ॥१२॥
उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥१३॥
त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑ ॥१४॥
स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।
अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥१५॥
अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
इ॒मं स्तोमं॑ जुषस्व मे ॥१६॥
उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
गो॒ष्ठं गाव॑ इवाशत ॥१७॥
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥१८॥
अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।
अ॒द्म॒सद्या॑य हिन्विरे ॥१९॥
तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।
वह्निं॒ होता॑रमीळते ॥२०॥
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥२१॥
तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
इ॒मं नः॑ शृणव॒द्धव॑म् ॥२२॥
तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।
अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥२३॥
वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥२४॥
अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।
सप्तिं॒ न वा॑जयामसि ॥२५॥
घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥२६॥
यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।
अग्ने॒ स बो॑धि मे॒ वचः॑ ॥२७॥
यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥२८॥
तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥२९॥
ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
तर॑न्तः स्याम दु॒र्गहा॑ ॥३०॥
अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।
हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥३१॥
स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।
शर्ध॒न्तमां॑सि जिघ्नसे ॥३२॥
तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥३३॥
Previous
सूक्त ४२
Next
सूक्त ४४